________________
वावचिन्तामो
अब प्राभाकराः प्रत्यक्षादिवदनुमितावपि पचता न देता गौरवान्मानाभावाच विषयान्तरसञ्चारादिविरहे परामर्शदिसत्त्वे च धारावाहिकप्रत्यक्षवदनुमितिधाराप्युत्पद्यत एव किन्तु परार्थानुमानएव सिद्धसाधनमर्थान्तरविधया दूषणं। न चैवं लिङ्गोपहितलैङ्गिकभाननयेऽनुमित्यनुव्यवसायानुपपत्तिः अनुमितिमामय्या बलवत्वेन १) अनुमितिधाराया एव उत्पत्स्यमानत्वात् इति वाच्य। स्विङ्गोपहितलैनिकभानस्य मानाभावेन सुदूरपराहतत्वात् । अथ तथापि मिद्धेरप्रतिबन्धकत्वेऽविनम्यदवस्थतत्तत्परामर्शदुत्पन्नानुमितिव्यक्तयः पुनः कथं नोत्पद्यन्ने(२) । न च तत्तदनुमितिव्यक्ति प्रति तत्तत्प्रागभावव्यकौनां विशिष्य हेतुतया तत्तदनुमितियक्रौनां विशिष्य प्रतिबन्धकतया. वा उत्पन्नानां न तामां पुनरुत्पाद इति वाच्यं। अनन्तकार्यकारणभावकल्पनामपेक्ष्य लाघवात् सिद्धेः प्रतिबन्धकत्वस्यैव युक्तत्वात्। न च सिद्धेः प्रतिबन्धकत्वेऽपि सिषाधयिषाविरहवैशिष्यस्य तत्र. विशेषणत्वावश्यकतया यत्र मिषाधयिषा ततोऽनुमित्यात्मकमियात्मकः परामर्शस्तत्र तदनुमितिव्यक्तः पुनरुत्पादप्रसङ्गो दुर्खार इति वायं। सिषाधयिषा-परामर्शोभयकालौनानुमितिव्यक्तिषु तत्तत्प्राग
(१) भिन्नविषये अनुमितिसामग्राः प्रत्यक्षसामग्रीतो बलवत्त्वमिति
भावः। ..(२) तथाच यो यत्सामग्रीमान् क्षणः स तदुत्पत्तिक्षणोत्पत्तिकध्वंस
प्रतियोगौ इति नियमात् तत्तदनुमित्युत्पत्तिक्षणे यदि तत्तदनुमितिसामग्रीमान् स्यात् तदा तत्तदनुमित्युत्पत्तिक्षणोत्पत्तिकवंसप्रतियो, गौ स्यादित्यापत्तिरिति समुदिततात्पर्य ।