________________
पहता।
नन्यस्य विशिष्टाभावस्थानुमितिजनकल्ले किमानमित्यतोऽवय-स्थतिरेको तत्र प्रमाणयति, 'तेनेति प्रस्थानुमितिजनकत्वेनेत्यर्थः, 'सन पक्षः' म न पचपदपरिभाषाविषयतावच्छेदकानुमितिजनकधर्मवानि. त्यर्थः । व्यतिरेकं दर्शयित्वाग्वयं दर्शयति, 'यति, ‘साधकप्रमाणे माध्यमियये, 'उभयाभावः' सिषाधयिषा-माध्यनियययोरभावः, चिति, प्रथमे केवलविशेषणाभावकतो द्वितीये विशेषण-विशेष्योभयाभावतस्ततोये च केवलविशेष्याभाववतो विशिष्टाभाव इति भावः । 'पक्षत्वं' अनुमितिमत्त्वं, 'पक्षत्वस्थ' पक्षपदवाच्यत्वस्य, 'भेदकत्वं' पक्षपदवाच्येतरभेदमाधकत्वं, तदितराप्रमिद्धेरिति भावः । 'पचपदप्रवृत्तिरिति पक्षपदप्रवृत्तेरनुमित्युत्पत्तेनिमित्तं कारणमित्यर्थः । यहा पक्षपदस्य प्रवृत्तिः प्रक्रियेन रूपेण इति व्युत्पत्त्या 'पक्षपदप्रवृत्तिः' पक्षपदशक्यतावच्छेदिकानुमितिः, उद्देश्यतासम्बन्धेनानुमितिमत्त्वमेव पक्षपदशक्यतावच्छेदक, तत्र निमित्तं कारणमित्यर्थः, तथाच नेदमितरभेदसाधकं अपि तु अनुमितिकारणमिति भावः । अथ वा पक्षपदप्रवृत्तिनिमित्तं शास्त्रकारीयपक्षपदपरिभाषाविषयतावच्छेदको धर्म इत्यर्थः । । प्राञ्चस्तु ‘पक्षपदप्रवृत्तिनिमित्तं' पक्षपदशक्यतावच्छेदकमित्यर्थः, पक्षपदस्य नानार्थतया माध्य-पक्षभेदेन सिषाधयिषा-माध्यमियययोर्भदादपि न चतिः। न चैवं पर्वतो वणिमानित्यनुमितौ घटादेरपि पचव्यवहारप्रसङ्ग इति वाचं। निश्चयनिष्ठविशेष्यतासम्बन्धेन प्रतियोगितावच्छदकत्वस्य शक्यताव छेदकतानियामकसम्बन्धत्वेनातिप्रसङ्गविरहादित्याज।