________________
अथ व्याप्तिवादः।
नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः न तावदव्यभिचरितत्वं तड्डि न साध्याभाववदत्तित्वम् साध्य
अथ व्याप्तिवादरहस्यं । अनुमानप्रामाण्यं निरूप्य व्याप्तिखरूपनिरूपणमारभते, 'नन्धिस्यादिना, 'अनुमितिहेलित्यस्य अनुमाननिष्ठप्रामाण्यानुमितिहेत्वित्यर्थः, 'याप्तिज्ञान इत्यत्र च विषयत्वं सप्तम्यर्थः, तथाचानुमाननिष्ठप्रमाण्यानुमितिहेतव्याप्तिज्ञानविषयोभता व्याप्तिः केत्यर्थः, अनुमाननिष्ठप्रामाण्यानुमितिहेत्वित्यनेन व्याप्तेरनुमानप्रामाण्योप“पादकत्वकथनादनुमानप्रामाण्यनिरूपणानन्तरं व्याप्तिनिरूपणे उपो
हात एव सङ्गतिरिति सूचितं । उपपादकत्वचाच ज्ञापकत्वं ।। . केचित्तु अनुमितिपदं अनुमितिनिठेतरभेदानुमितिपरं, तथाचानुमितिनिष्ठेतरभेदानुमितौ योहेतुः • प्रागुकव्याप्तिप्रकारकपक्षधर्माताज्ञानजन्यत्वरूपः, तहटकं ययाप्तिज्ञानं तदंशे विशेषणभता व्याप्तिः केत्यर्थः, घटकत्वार्थकसप्तमौतत्पुरुषसमासात्(१) तथाच मागुकानुमितिलक्षणोपोहात एव मङ्गतिरनेन सूचिता इत्याहुः ।
(१) अनुमितिहेवी व्याप्तिशानं बमुमितिहेतुव्याप्तिशावमिति सप्तमोसत्पुरुषसमासादित्यर्थः।