________________
तत्वचिन्तामणे
. 'न तावदिति, ‘तावत्' वाक्यालझारे, 'अव्यभिचरितवं श्रव्यभिचरितत्वपदप्रतिपाद्यं, तब हेतुमाइ, 'तद्धीत्यादि, 'हि' यस्मात्, 'तत्' अव्यभिचरितत्वपदप्रतिपाद्यं, 'नेति, सर्वस्मिन्नेव लक्षणे सम्बयते, तथाच व्याप्तिर्यतः माध्याभावदंवृत्तित्वादिरूपाव्यभिचरितत्वशब्दप्रतिपाद्यखरूपा न अतोऽव्यभिचरितत्वशब्दप्रतिपाद्यस्वरूपा नेत्यर्थः पर्यवसितः, विशेषाभावकूटस्य सामान्याभावहेतता च प्रसिद्वैवेति, अतः एतन्नद्धयोपादानं न निरर्थकम् । “माध्याभाववदवृत्तित्वमिति, 'वृत्तं' वृत्तिः, भावे निष्ठाप्रत्ययात्, वृत्तस्थाभावः 'अवृत्त' वृत्त्यभाव इति यावत्, साध्याभाववतोऽवृत्तं 'माध्याभावववृत्त' साध्याभावववृत्त्यभाव इति यावत्, तद्यचास्ति माध्याभाववदवृत्ती मत्वर्थो येन्प्रत्ययात् तस्य भावः ‘माध्याभाववदवृत्तित्व' तथाच साध्याभावववृत्त्यभाववत्त्वमिति फलितमिति प्राञ्चः, तदमत् न कर्मधारया मत्वर्थीयो बडबोरिवेदर्थप्रतिपत्तिकर इत्यनुशासनविरोधात् तत्र कर्मधारयपदस्य बडबौहौतरसमासपरत्वात् (१)
(१) पत्र कर्मधारयपदस्य समासमात्रपरत्वे साध्याभाववदत्तिवमित्यत्र साध्याभाववत्पदस्य साधत्वानुपपत्तिः साध्यस्थाभावः साध्याभाव इति समासोत्तरमतुष्प्रत्ययस्य अनुशासनविण्डत्वात् यतः बाबीहीतरसमासपरत्वमावश्यक तथाच साध्यं व्यभावो यस्य स साध्याभावः इति बडबीछुतरं मतुप्प्रत्यये नानुशासनविरोधः। बाबीहिश्वेदर्थप्रतिपत्तिकर इत्यनुक्तौ कृष्णसर्पववल्मीकमित्यादिप्रयोगस्य साधुत्वानुपपत्तिः कृष्णसति पदस्य नित्यसमासतया तदुत्तरं मतुंम्प्रत्यये अनुशासनविरोधः, कृष्णः सो यत्र इति विग्रहस्य विलक्षणवैशात्यावच्छिन्नसर्पवत्त्ववोधकत्वासम्भवेन बङबीहेरर्थप्रतिपत्तिकरत्वाभावात् नास्माकं तादृशप्रयोगासाधुत्वम् ।