________________
तत्वचिन्तामगै
दकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरेकित्वमतिप्रसङ्गात् विशेष लक्षणे वह्नि-धूमसम्बन्धे पक्षेतरस्योपाधित्वप्रसङ्गाच्च।
चेत्यादिग्रन्थस्तु साम्प्रदायिकवद्योजनौयः। 'साध्ययावतकवादित्यस्य तु निरुतसाध्याभावसिद्धिखरूपयोग्यत्वाभावादित्यर्थः, इति कृतं पल्लवितेन। ___ 'यतिरेकधर्मत्वमिति, केवलान्वयिनः प्रमेयत्वादेः स्वरूपसम्बन्धेन कुत्रापि नोपाधित्वमिति व्यतिरेकित्वोपादानं, तथाच तत्सम्बन्धेन स्वप्रतियोग्यमधिकरणे वर्तमानस्थाभावस्य प्रतियोगितावच्छेदको यो धर्मस्तद्वत्त्वं तेन रूपेण तत्सम्बन्धेनोपाधित्वमिति फलितं, तेन प्रमेयत्वादेः समवायसम्बन्धनाभावप्रतियोगित्वेऽपि न स्वरूपसम्बन्धेनोपाधित्वं, न वा खरूपसम्बन्धेन संयोगाभावादेरुपाधित्वं तेन सम्बन्धेन तदनधिकरणप्रसिद्धेः(१) सम्बन्धविशेषलाभायैव धर्मपदमिति भावः। 'तत्तदुपाधेरिति तत्तत्माध्यक-तत्तद्धेतुकोपाधेरित्यर्थः, लक्षणमित्यनुषज्यते, 'धूम-वजिसम्बन्धोपाधिरिति धूमाव्यापकत्वे सति वहिव्यापकत्वरूपधूम-वह्निसम्बन्धावच्छिन्नत्वेनाभिमतोपाधिपदवाच्यतात्रय इत्यर्थः, व्यतिरेकिधर्मत्वावच्छिनोपाधिपदवाच्यत्वाश्रयवारणायाभिमतान्तं वाच्यताविशेषणं । यद्यपि धूमायापकत्वे मति (१) खरूपसम्बन्धेन संयोगाभावाभावस्य संयोगस्य वृक्षादौ सवेऽपि " संयोगरूपाभावप्रतियोगिनः संयोगामावस्यागधिकरण न रक्षादेरतो न संयोगाभावादेशपाधिश्वमिति भावः । ।