________________
उपाधिवादः ।
३७५
'केचित्तु साधनव्यापकेोऽप्युपाधिः कच्चिद्यच पक्षारतिर्हेतुः यथा करका पृथिवो कठिनसंयेोगात् इत्यचानुष्णाशीतस्पर्शवत्वं । नच तच स्वरूपासिद्धिरेव देोषः, सर्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः ।
वव्यापकत्वं यदि उपाधिपदवाच्यतावच्छेदकं स्यात् तदा तदवच्छिन्नोपाधिपदवाच्यताश्रयः पचेतरः स्यादित्यापादने वैयधिकरणं, तथापि उपाधिपदवाच्यतावच्छेदकत्वं यदि धूमाव्यापकत्वे सति वह्निव्यापकतासामान्यनिष्ठं स्यात्तदा पचेतरनिष्ठधूमाव्यापकत्व विशिष्टवहिव्यापकतानिष्टमपि स्यादित्यापादने तात्पर्यं । 'श्रपाद्येति धमाव्यापकत्वविशिष्टवहिव्यापकत्वाप्रसिड्या तद्घटितापाद्याप्रसिद्धेरित्यर्थः, तङ्घटितापादकाप्रसिद्धेश्चेत्यपि बोध्यं । ननु सामान्यलचएमितरभेदकं तत्तत्साध्यक-तत्तद्धेतुकोपाधिलचणन्तु दूषणौपयिकं तच्च यत्किञ्चिद्धर्मावच्छिन्नतत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं तेन विशिष्टसाध्यव्यापकोपाधौ नाव्याप्तिरित्यत श्राह 'विशेषलक्षण इति यत्किञ्चिद्धर्मावच्छिन्नतत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वरूपे तत्तत्साध्यक-तत्तद्धेतु कोपाधिलक्षण इत्यर्थः, दूषणौपयिक इति शेषः । 'वहि- धूमसम्बन्धे' वहि धूमसम्बन्धज्ञाने वहि- धूमव्याप्तिज्ञान इति यावत्, 'पचेतरस्येति पचेतरनिष्ठतद्रूपज्ञानस्य प्रतिबन्धकत्वप्रसङ्ग इत्यर्थः, न चेष्टापत्तिः, पचेतरत्वादिनिष्ठसाध्यव्यापकत्वे सति साधनाव्यापकत्वज्ञानस्य प्रतिबन्धकतायाः सर्व्व
ܬ