________________
उपाधिवादः।
धूमवद्यरित्यचाधनेलक्षणं योजयति, 'यथेति । भग्वान्धनाभावस्य कथं साधनविशिष्टसाध्याभावव्याप्यत्वमित्यत श्राह, यावर्त्तते हौति, 'हि' यस्मात्, 'व्यावर्त्तते' व्यावृत्तिप्रतियोगित्वेनानुमीयते, 'प्रयोगोलके' पचौभूते प्रयोगोलके। नन्वेतावता तदभावस्य शुद्धधूमाभावव्याप्यत्वेऽपि पत्तिधर्मविशिष्टसाध्याभावव्याप्यत्वं न सम्भवति तदभाववति पक्षे शुद्धसाध्याभावसत्त्वेऽपि विशेषणासत्त्वेन तादृशविशिष्टसाध्याभावासन्चादित्यत आह, 'अतएवेति, अर्थस्तु पूर्ववत् । ननु ध्वंसो न नित्यो जन्यत्वात् वायुर्वहिरिन्द्रियप्रत्यक्षः प्रमेयत्वादित्यादौ भावत्वोद्भूतरूपवत्त्वाधुपाधेरभावस्य जन्यत्व-द्रव्यत्वादिरूपपक्षधर्मविशिष्टसाध्याभावव्याप्यत्वज्ञानात्तदभावेन हेतुना तादृशविशिष्टमाध्याभावानुमितिर्भवतु शुद्धसाध्याभावानुमितिश्च कथं स्यात् । न च तदनुमितिविरहेऽपि न क्षतिरिति वाच्य। निरुतोपाधित्वज्ञानस्य पक्षे शुद्धमाध्याभावानुमितिद्वारैव दूषकत्वस्याभ्युपेयत्वात् विशिष्टसाध्याभावानुमितेः शुद्धमाध्यानुमितावप्रतिबन्धकवादित्यत आह, 'एवमिति, ‘एवं' निरुक्तस्योपाधित्वरूपत्वे इत्यर्थः, तज्ज्ञानादिति शेषः। यद्दा 'एवमित्यस्य यथायोगोलकं धूमवक्रेरित्यत्रा;न्धनाभावस्य द्रव्यत्वादिरूपपक्षधर्मविशिष्टसाध्याभावव्याप्यत्वज्ञानानन्तरं तदभावेन हेतुना पक्षे तादृशविशिष्टसाध्याभावः सियति न द्रव्यत्वादेः पक्षवृत्तित्वनिस्वयबलात् शुद्धसाध्याभावः मिति तथेत्यर्थः, अन्यथा तत्राप्येतदाशाकासम्भवादिति भावः। ‘भावत्वव्यावृत्त्येत्यस्य जन्यत्वविशिष्टनित्यत्वाभावाभावव्याप्यत्वज्ञानानन्तरमित्यादि, अग्रेऽपि तथेत्यस्य द्रव्यत्वविशिष्टवहिरिन्द्रियप्रत्यक्षवाभावव्याप्यत्वज्ञानानन्तरमिति भेषः, 'तथा