________________
उपाभिवाद।
'अन्ये तु ययाहत्त्या यस्य साधनस्य. साध्यं निवर्तते स धर्मस्तच हेतावुपाधिः, स च धर्मीयस्याभावान
पचे यस्याभावात्पक्षतावच्छेदकावच्छेदेन वर्तमानात् यस्थाभावात्, 'माध्य-साधनसम्बन्धाभाव इति योजना, प्रयोजकत्वं पञ्चम्यर्थः तच्च व्यापकत्वमेव, तथाच पक्षतावच्छेदकावच्छेदेन वर्तमानस्य यदभावस्य व्यापकः साधनविशिष्टस्य माध्यस्याभाव इत्यर्थः, 'माधनपदं पक्षवृत्तिधर्मपरन्तेनाश्वो गौरश्वत्वादित्यादिविरुद्धस्थलीयमानावत्त्वाधुपाधौ वायुः प्रत्यक्षः प्रमेयवादित्यादौ पक्षधर्मावच्छिन्नमाध्यव्यापके उद्भतरूपादौ च नाव्याप्तिः तदभावस्थापि द्रव्यत्व-वहिद्रव्यत्वादिरूपयत्किञ्चित्पक्षवृत्तिधर्मविशिष्टमाध्याभावव्याप्यत्वात् पक्षतावच्छेदकावच्छेदेन वर्तमानत्वाच्च । एवमग्रेऽपि सर्वच माधनपदं पक्षधर्मपरं, एवञ्च यद्धर्मावच्छिन्नाभावः पक्षवृत्तिधर्मावच्छिन्नसाध्याभावव्याप्यः पचतावच्छेदकावच्छेदेन वर्तमानश्च तद्धर्मावच्छिन्नत्वम्पाधिसमिति फलितं, वायुः प्रत्यक्षः प्रमेयत्वात् गौरमित्रातनयः श्यामः मित्रातनयत्वादित्यादौ शुद्धसाध्याव्यापके उद्भूतरूपवत्त्व-शाकपाकजत्वादावव्याप्तिवारणयावच्छिन्नान्तं माध्यविशेषणं, पर्वतो वकिमान् धूमात्पर्वतो धूमवान् वक्रेरित्यादौ महानसत्वादावतिव्यायापत्त्या यत्किञ्चिद्धर्मति विहाय पचवृत्तिधर्मत्यभिहितं, पक्षत्तिधर्मत्वच पक्षतावच्छेदकव्यापकधर्मत्वं तेन न पर्वतो वहिमान् धूमादित्यादौ निर्वकिपर्वत-महानमाद्यन्यतरत्वादिविशिष्टवहिव्यापके महानसत्वादावतियाप्तिः । न च तथाप्ययोगोलकं धूमवत्