________________
२१९
सावचिन्तामो
वाचं। उपाधेरात्मलाभार्थमनुकूलतर्काभावोपजीवकत्वेन तस्यैव दोषत्वादिति चेत् । न । सोपाधावेकर साध्य-सदभावसम्बन्धस्य विरुद्धत्वादवच्छेदभेदेन तद्
मामानाधिकरण्यसंसर्गण उपाधिरवश्यं वाचः इत्यर्थः, एकव्यक्तिकव्यभिचारिहेतकस्थले सामानाधिकरण्यसंसर्गेण उपाधेरवच्छेदकलं विनान्यस्यावच्छेदकताया दुर्चचत्वात् धूमवान् वहेरित्यादौ च नैकव्यक्तिः माध्य-तदभावसमानाधिकरण। न च द्रव्यं सत्त्वादित्यादावपि गुणान्यत्वविभिष्टमत्तात्व-द्रव्यवृत्तित्वादिकमेवावच्छेदक भविव्यतीति वाच्च। सामानाधिकरण्यसम्बन्धेन गुणान्यत्व-द्रव्यत्वाद्यपेक्षया तस्य गुरुत्वात् । न च घटत्वादिकं सामानाधिकरण्यसंसर्गणवछेदकं भविष्यतीति वाच्यं । सामानाधिकरण्यसंमर्गेण तदिशिष्टस्य माधनस्य साध्यन्यूनवृत्तित्वादिति भावः(१) । 'आवश्यक इति, तं विना माध्यव्यापकत्वज्ञानासम्भवात् इति भावः । 'विनिगमका. भावादिति, इदमापाततः साध्यसम्बन्धितावच्छेदकत्वेन उपाधिखरूपस्यावश्यकत्वेऽपि तस्य उपाधित्वज्ञानं कथं दोषः स्यात् उपजीव्यखेनानुकूलतळभावस्यैव दोषत्वमम्भवात् । वस्तुतस्तु उपाधित्वज्ञानानुकूलतर्काभावयोरुपजीव्योजौवकभावो न कार्य-कारणभावः असभवात्, न वा व्याय-व्यापकभावः तस्य प्रतिबन्धकतायामविनिगमकत्वात् तद्धेतोरेवेत्यादिनियमस्य कारणतायामेव विनिग
(१) पतिप्रसक्तम्येव न्यूनवृत्ते पि नावच्छेदकत्वमिति भावः ।