________________
तत्वचिन्तामणे
तथा पंक्षतरः साध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति), तन्न, तथाहि साध्यव्यापकतापक्षमालम्ब्य हेतुव्यभिचारसंशयाधायकत्वेन दूषणं स्यादेव । ननु यवोपाधिस्तत्रानुकूलतोयदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः, प्रथास्ति तदा साध्यव्याप्या
स्थोपाधित्वसन्देहस्तदापि व्याप्तिग्रहो न भवत्येव परन्तु कथकसम्प्रदायानुरोधात् कथायां मन्दिग्धोपाधित्वेन पक्षेतरो नोभाव्यते इत्येव तत्त्वं ।
'यत्त्विति, 'यथाशब्दो यदेत्यर्थकः' 'माध्यव्यापकत्वं माध्ययापकत्वनिश्चयः, 'तथा' तदा, 'साध्याभावव्यापकत्वमपीति, निश्चिनुयादिति शेषः, 'ग्राहकमाम्यादिति पक्षातिरिक्त सहचारज्ञानव्यभिचारज्ञानरूपयोहिकयोः साम्यादित्यर्थः, 'उभयव्यापकनिवृत्त्येति उभयव्यापकत्वेन निशितस्य तस्य निवृत्त्या हेतुनेत्यर्थः, ‘पचे निवर्त्तितव्यं' पनविशेष्यकानुमितिखरूपयोग्यनिवृत्ति-प्रतियोगिभ्यां भूयेत, तद्धेतुकानुमितिस्वरूपयोग्यत्वञ्च तड्यापकतानिश्चयत्वं, तथाच माध्यतदभावयोरुभयचैव पक्षेतरत्वाभावव्यापकतानिश्चयः स्यादिति फलितं, 'न चैवमिति छेदः, न च माध्य-तदभावयोर्विरुद्धयोरेकधर्मव्यापकतानिश्चयइत्यर्थः, मत्प्रतिपक्षस्थले च हेतुभेदेनैव तदभ्युपगमात् अतएवामाधारणस्य व्यापकताग्रहप्रतिबन्ध एव दूषकतावीजमिति भावः। 'माध्यव्यापकतासंभयेनेति साध्यव्यापकतासंभयस्यैव विषय(१) तथापि हौतिक । सथापौति ग.।