________________
उपाधिवादा।
द्रव्यवहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्वं, मित्रातनयश्यामत्वे शाकपाकजत्वं, जन्यानित्यत्वे भावत्वमुपाधिः, तदुत्कर्षेण साध्योत्कर्षात्, अनन्यथासिद्धान्वयव्यतिरेकता वैद्यकात् कारणतावगमेन घटेन्मजनप्रसङ्गेन साध्यव्यापकतानिश्चयात, तत् किं कार्य-कारणयोरेव व्याप्तिः तथाच बहु व्याकुली स्यादिति चेत् । न । निश्चितः, यथारख्यमनुकूलतर्कमाइ, 'तदुत्कर्षणेति आन्धनप्रभववङ्ग्युत्कर्षेण धूमोत्कर्षादित्यर्थः, द्वितीये तर्कमाइ, 'अनन्यथेति द्रव्यवहिरिन्द्रियप्रत्यक्षं प्रति उद्भूतरूपस्यानन्यथासिद्धान्वयव्यतिरेकादित्यर्थः(१), हतीये तर्कमाह, 'वैद्यकादिति, वैद्यकेन नरौयथ्यामत्वं प्रति भाकपाकस्य जनकत्वकथनादिति भावः । 'कारणतावेगमेनेति आन्धनप्रभववढ्यादीनां धूमादिकं प्रति कारणतानिश्चयेनेत्यर्थः, चतुर्थ तर्कमाह, 'घटोनमज्जनेति ध्वंसस्यापि ध्वंसप्रतियोगित्वे ध्वंसप्रतियोगिनो घटस्य पुनः परावृत्तिप्रसङ्गेनेत्यर्थः, ध्वंस-प्रागभावानधिकरणकालस्य प्रतियोग्यधिकरणत्वनियमादिति भावः । इदमापाततः प्रतियोगिनो ध्वंसेऽपि यथा प्रागभावध्वंसस्तथा ध्वसस्य ध्वंसोऽपि प्रतियोगिनो ध्वंस इत्युक्तावेव घटोन्मज्जमप्रसङ्गवारणसम्भवात्। वस्तुतस्तु अप्रामाणिकानन्तध्वंसप्रतियोगिनिष्ठतत्कारणत्वकल्पनामपेक्ष्य ध्वंसानन्तत्वकल्पनैव लघीयसौति लाघवमेवानुकू(९) वडधा व्याकुली स्यादिति क०, ख० । (२) वायोः स्पार्शमप्रत्यक्षमपि न भवतीतिमतेनेदं ।