________________
उपाधिवादः।
३७०
व्यभिचारस्य विशेष्यव्यभिचारित्वनियमात् । अतरव नार्थान्तरं विषणाव्यभिचारित्वेन जाते साधने विशिटव्यभिचारः सिध्यन् विशेष्यसाध्याव्यभिचारमादायैव
दकावच्छिन्नत्वादिति भावः। न च तस्य व्यापकतावच्छेदकावछिन्नत्वेऽप्यनुमितापकतावच्छेदकप्रकारकत्वनियमादिशिष्टमाध्यव्यभिचारित्वप्रकारिकैव धीः स्यात् तथाचार्थान्तरमेव शुद्धसाध्यव्यभिचारित्वप्रकारकबुद्धेरेव कारणीभूतव्याप्तिज्ञानप्रतिबन्धकत्वेनोद्देश्यत्वादिति वाच्य। दूतरकोटिबाधसहकारेण व्यापकतानवच्छेदकरूपेणपि व्यापकतावच्छेदकावच्छिन्नानुमितिखौकारात्। 'अन्यथा' विशेष्यव्यभिचारित्वाविषयकत्वे, 'अपर्यवसानात्' अपर्यवसानप्रसङ्गात् अमावसगादिति यावत्, विशेषणव्यभिचारित्वस्य तत्र बाधितत्वादिति भावः । ननु तथापि अनुमितेापकतावच्छेदकप्रकारकत्वनियमे पक्षधर्मताबलादपि शुद्धमाध्यव्यभिचारित्वप्रकारिका धौर्न सम्भवतीत्यस्खरमादाह, 'यद्देति, द्रव्यप्रत्यक्षवेति द्रव्यत्वावच्छिन्नप्रत्यक्षवेत्यर्थः, महत्त्ववत्' चक्षुरादिनिष्ठमहत्त्ववत्, तेन घटादिवृत्तिमहत्त्वस्य माध्य-साधनविकलत्वेऽपि न चतिः। इदच्चानुमानं प्रत्यक्षपरिमाणवत्त्वाद्युपाध्यभिप्रायेण न तु उद्भूतरूपवत्त्वोपाध्यभिप्रायेण तस्यात्मनि व्यभिचारेण द्रव्यत्वावच्छिन्नप्रत्यक्षत्वाव्यापकत्वात्, तद्व्यभिचारित्वस्य सुखादौ प्रत्यवत्वव्यभिचारित्वव्यभिचाराच्च इत्यपि द्रष्टव्यं। न च 'द्रव्यप्रत्यक्षत्वव्यापकत्यत्र द्रव्यपदवैयर्थमिति वाच्यं । प्रत्यचपरिमाणवत्वादिव्यभिचारित्वस्यैव