________________
उपाधियादा।
२५
मध्य इति न तपायाप्तिरिति भावः । रूपवान् द्रव्यत्वादित्यादौ प्रथिवीवाभावादेर्लक्ष्यतापक्षे तु यद्धविच्छेदे' इति सप्तमौ पडूर्मविशिष्ट इत्यर्थः, माधनाधिकरण इति शेषः, 'नशब्दय निषेधार्थकः, 'प्रसिद्धं वर्तमानं, तथाच माध्यानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नमाध्यव्यापकतावच्छेदकत्वे सति साधनाव्यापकतावच्छेदको यो धर्मस्तत्त्वमुपाधित्वमिति फलितं, विशिष्टसाध्यव्यापकोपाधावव्याप्तिवारणयावच्छिनाम्न माध्यविशेषणं, रूपवान् द्रव्यत्वादित्यादौ माध्यानधिकरणं साधनाधिकरणं वाय्वादि तवृत्तिधर्मो वायुजलान्यतरत्वादिस्तद्धर्मावच्छिन्नमाध्यव्यापक एव पृथिवीवाभावादिरिति तत्रापि लक्षणसमन्षयः । यत्किञ्चिद्धर्मावच्छिन्नमाध्यव्यापकत्वस्य साधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वस्य वाभिधाने वकिमान् धूमादित्यादिमखेतावपि साध्यव्यापमहानमत्वव्यञ्चनवत्त्वादेरप्युपाधितापत्तिरिति साध्यामधिकरणमाधनाधिकरणवृत्तित्वं धर्मविशेषणं, साध्यानधिकरणमाधनाधिकरणञ्च मद्धेतावामिद्धमतो न तद्दोषतादवस्यम्। महानसत्वव्यञ्जनवत्त्वादेरपि महानस-जलदान्यतरत्वादिविशिष्टसाध्यव्यापकतया तद्दोषतादवस्थ्यवारणाय साधनाधिकरणप्रवेशः, साधनाधिकरणत्वच माधनतावच्छेदकविभिष्टाधिकरणत्वं, तेन द्रव्यं गुण-कर्मान्यत्वविशिष्टसत्यादित्यत्र माध्यानधिकरणमाधनाधिकरणवृत्तिरूप-घटान्यतरत्वावच्छिन्नमाध्यव्यापके(१) पृथिवीवादौ नातिव्याप्तिः। साध्या
(१) साध्यानधिकरणसत्ताधिकरणतिरूप-घटान्यतरत्वावच्छिन्नसाध्यथापक इति ख.. ग.।