________________
उपाधिवादा।
२१.
तदवच्छिन्नं पर्यवसितं साध्यं, स च धर्मः कचित् साधनमेव, कचिद्र्व्यत्वादि, कचिन्महानसत्वादि,
वैशिष्यस्य साधनाधिकरणेऽन्वयः, निरुतमाध्यममानाधिकरणत्वेन च तद्धमी विशेषणैयः तेन साध्यविरुद्धधर्म नातिव्याप्तिरिति लक्ष्यतावच्छेदकं परिष्कुर्वन्ति । तदमत् उदचरत्वादिति समासः । ___ अत्र लक्ष्यतावच्छेदकस्यैव लक्षणत्वसम्भवेऽपि येन रूपेण ज्ञातस्य उपाधेर्दोषत्वं तादृशं लक्षणमाह, 'लक्षणत्वित्यादिना, पर्यावमितपदार्थमाह, 'यद्भुमति, 'यद्धविच्छेदेन' यद्धर्मवति, 'माध्य प्रसिद्धू' माध्यं वर्तमानं, 'तदवच्छिन्न' मामानाधिकरण्यसम्बन्धेन तादृशयत्किञ्चिद्धर्मविशिष्टमित्यर्थः, यथाश्रुतेऽवच्छेदकत्वं नाचान्यूनवृत्तित्वं न वानतिरिक्तवृत्तित्वं मित्रातनयत्वादीनां तदसम्भवाना न वा स्वरूपसम्बन्धविशेषः मित्रातनयत्वादीनां तथात्वे मानाभावादित्यसङ्गतत्वापत्तेः। अत्र व्यधिकरणयत्किञ्चिद्धर्मविशिष्टस्य माध्यस्य पर्यवमितपदार्थत्वे अप्रसिद्ध्यापत्तिरतो धर्मविशेषपरिचयाय प्रसिद्धान्तं न तु लक्षणघटक, “लक्षणन्तु सामानाधिकरण्यसम्बन्धेन यत्किञ्चिद्धर्मविशिष्टसाध्यव्यापकत्वे मति माधनाव्यापकत्वमेव ।
केचित्तु ‘प्रसिद्धं' निश्चितं, एतच्च पर्यवसितपदार्थतया स्वरूपकथनमित्याः ।
'क्वचित् साधनमेवेति काकः श्यामो मिवातनयत्वादित्यादावित्यर्थः, 'क्वचित् द्रव्यत्वादौति वायुर्वहिरिन्द्रियप्रत्यक्षः प्रमेयत्वादित्यादावित्यर्थः, 'कचिन्महानसत्वादौति धूमवान् वहेरित्यांदा