________________
उपाधिवादा।
२५०
वधिकरणतावृत्तिवादिति वाच्यं । तच तस्य खच्यत्वात् महानमायोगोलकान्यतरत्वावच्छिन्नधूमव्यापकत्वे मति तदवच्छिववङ्ग्यव्यापकत्वेन वक्ष्यमाणलक्षणाकान्तत्वात् “सर्वे साध्यसमानाधिकरणः सदुपाधयः हेतावेकाश्रये येषां स्व-साध्यव्यभिचारिता” इति सिद्धान्ताच, येषां खव्यभिचारिता माध्यव्यभिचारिता च एकाश्रये एकस्मिन्नधिकरणे हेताविति तदुत्तरार्द्धार्थः, एकस्मिन्नधिकरणे इत्युपादानात् पर्वतो धूमवान् वहेरित्यादौ पर्वतेतरत्व-महानसेतरत्वादेः इदं गुरु रूपादित्यादौ पृथिवौत्वाभाव-घटत्वाभावादेव न संग्रहः । न च तत्र तेषामपि संग्राह्यत्वमखिति वाच्यं । व्याप्ति-पक्षधर्मतयोरेकतरभङ्गस्थावश्यकतया तत्र तयभिचारित्वेनाविशेषितेन विशेषितेन वा माध्यव्यभिचारित्वानुमानासम्भवात् रूपवान् द्रव्यत्वात् द्रव्यं सत्त्वादित्यादावपि पृथिवीवाभाव-घटत्वाभावादिर्न मंग्राह्यः जलसमवेसनित्यत्वादिविशेषितेन तत्तयभिचारित्वेन तत्र माध्यव्यभिचारानुमानसम्भवेऽपि नयभिचारित्व-साध्यव्यभिचारित्वयोरेकस्मिनधिकरणे हेतावसम्भवात् नत्र तदनुपाधित्वस्य उपाधायादिमकलतान्त्रिकसम्मतलादिति सर्व चतुरसम् ।
केचित्त हेतावेकाश्रये हेतुरूपे एकस्मिन्नधिकरणे एकस्यां हेतुव्यकाविति यावत्, तेन रूपवान् द्रव्यत्वात् द्रव्यं सत्त्वादित्यादौ पृथिवीवाभाव-घटवाभावादिरपि संग्राह्यः, इदं गुरु रूपादित्यादौ तु मन संग्रायः एकस्या एव वहिव्यकरयोगोखक-पर्वताधुभयवृत्तित्वसम्भवे धूमवान् वक्रेरित्यत्र पर्वतेतरत्व-महानसेतरलादेरपि संग्रहः। न च तत्र आप तेषां संपावत्वेन वच्यमाणलक्षणस्य तवाव्याण्यापत्तिरिति वायं ।