SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ उपाधिवादः। १९५ तदसिडी च कस्य व्यापकः, न हि सोपाधी पक्षधर्मताबलात् साध्यं सिध्यति यस्य व्यापक उपाधिः स्यादिति। इति श्रीमहङ्गेशपाध्यायविरचिते तत्वचिन्तामणी अनुमानाख्यहितीयखण्डे उपाधिवादपूर्वपक्षः। ------------------------ इदमुपलक्षणं वायुः प्रत्यक्षः प्रत्यक्षस्पर्माश्रयत्वादित्यादावुद्भूतरूपवत्त्वादावव्याप्तिः, न हि तत्र वहिव्यत्वावच्छिन्नपत्यक्षत्वादिकं पक्षधर्मताबललभ्यं, न च पक्षधर्मताबललभ्यत्वं यदा कदाचिद्यस्य कस्यचित् पक्षधर्मताबललभ्यत्वं अत एवोद्भूतरूपवत्त्वादावपि नाव्याप्तिः विशिष्टे लाघवज्ञानादिसहकारेण वहिव्यत्वावच्छिन्त्रप्रत्यक्षवादावपि कदाचित् पक्षधर्मतावललभ्यत्वादिति वायं । प्रसिद्धानुमाने महानसत्वादेरप्युपाधितापत्तेः महानमौयवयादेरपि कदाचित् पक्षधर्मताबललभ्यत्वेन तड्यापकत्वादित्यास्तां विस्तरः । इति श्रीमथुरानाथतर्कवागौम-विरचिते तत्त्वचिन्तामणिरहस्य अनुमामाख्यद्वितीयखण्डरहस्ये उपाधिवादपूर्वपक्षरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy