________________
'उयाधिवादः।
तवापि यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्रमावश्यकत्वालाघवाच न साध्यव्यापकव्याप्यत्वमपि भवतैव व्यभिचारस्य दर्शितत्वात्। न च साध्यव्याप्यव्याप्यत्वमेवानोपाधिकत्वं, साध्यव्याप्यमित्यचापियनोपाधिकत्वं
माध्ये धूमः मोपाधिरित्यपि न व्यवहारः अव्याप्यत्वसम्बन्धेन यथोकधर्मवत्त्वस्यैव तादृशव्यवहार नियामकलादिति प्राहुरिति संक्षेपः।
'भावः' अव्याप्यतासम्बन्धावच्छिन्नाभावः, 'तस्याभावेऽपौति अव्याप्यतासम्बन्धेनाभावसत्त्वेपौत्यर्थः, 'व्यभिचारात्' साध्यव्यभिचारमत्त्वात्, एतदेव शब्दोऽनित्योगुणवादित्यत्र विषमयापके प्रमेयत्वे ग्राहयति, 'अस्ति हौति भवति होत्यर्थः, 'अनित्यत्वव्यापक अनित्यत्वविषमव्यापकं, 'प्रमेयत्वं' अनित्य-गुणवितिप्रमाविशेष्यत्वं, 'तयाण्यञ्चेति अव्याप्यतासम्बन्धेन तदभाववञ्चेत्यर्थः। 'न चानित्यत्वगुणत्वयोरिति न च गुणत्वेऽनित्यत्वव्यभिचाराभावोऽस्तीत्यर्थः, ‘प्रमेयत्वमितियथाश्रुतन्तु न मङ्गछते तद्वदन्यत्तित्वरूपाव्याप्यत्वस्यैव लाघवादनुगतत्वाचात्र घटकतया केवलान्वयिनः प्रमेयत्वस्य तदप्रसिद्धेः। न च तथापि 'न च गुणत्वेऽनित्यत्वव्यभिचाराभावोऽस्तोत्यसंगतं विशेषणताविशेषसम्बन्धेन माध्यव्यभिचारित्वस्यैव लक्षणघटकतया गुणत्वजातौ तादृशानित्यत्वव्यभिचाराभावस्य सत्त्वादिति वाच्य। 'गुणत्वपदस्य गुणपदवाच्यत्वपरत्वादिति ध्येयं । 'व्यतिरेकः' अव्याप्यतासम्बन्धावच्छिन्नप्रतियोगिताकव्यतिरेकः, 'तथा' माध्य
41