SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ उपाधिवाद । कृतमित्यादौ लाभादावप्युपाधिपदप्रयोगात्। किन शास्त्रे लौकिकव्यवहारार्थमुपाधिपदव्युत्पादनं किम्वा नुमानदूषणार्थ, तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमात्रमिति शास्त्रे तथैवर) उपाधिपदप्रयोगः। .. 'अन्ये तु यदभावो व्यभिचारविरोधी स उपाधिः। न च विषमव्याप्तस्याभावो व्यभिचारं विरुणडि, तस्या व्याप्तिसंक्रामक इत्यर्थः, 'खधर्मप्रतिविम्बेति खनिष्ठधर्मान्तरप्रतिविम्बजनक एवेत्यर्थः, 'लाभादावपीति तत्रोपाधिपदस्य प्रयोजनार्थकत्वादित्यर्थः, तथा च तत्र यथा योगार्थनवापेक्ष्येणापि उपाधिपदवाच्यत्वं तथा विषमव्यापकेऽपि केवलरूत्यर्थमादायैव उपाधिपदवाच्यत्वसम्भवः, न हि योगार्थविशिष्टोरूड्यर्थः प्रवृत्तिनिमित्तः, इति हृदयं। चौकिकव्यवहारार्थमिति लोकानामुपाधिस्वरूपज्ञामार्थमित्यर्थः, 'उपाधिपदव्युत्पादनमिति परोक्कानुमानदूषणप्रस्ताबे अत्रायमुपाधिरिति उपाधिपदप्रयोग इत्यर्थः, 'अनुमानदूषणार्थमिति उपाधित्वेन उपाधिज्ञानद्वारा वा व्याप्तिज्ञानप्रतिबन्धार्थमित्यर्थः, 'तच्चेति अनुमानदूषौपयिकरूपञ्चेत्यर्थः, 'तथैव' माध्यव्यापकत्व-साधनाव्यापकत्वमात्रेणैव । विषमव्याप्तस्यालक्ष्यत्वे विनिगमकान्तरमाशते, 'अन्ये विति, 'यदभावः' यद्धर्मावच्छिनाव्याप्यत्वसम्बन्धावच्छिनप्रतियोगिताकोयद (१) तत्रैवेति क., ख.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy