________________
उपाधिवादः।
कोऽसाधारणत्वात्, 'न तु व्यभिचरोबायकतया दूषणं यथाहि साध्यव्यापकोपाध्यव्याप्यतया हेतोः साध्याव्याप्यत्वं तथा साध्यव्याप्य हेत्वव्यापकतयोपाधेर्न साध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापि साम्येन विनिगमकविरहात् । तस्माद्यथा साध्यव्याप्येन हेतुना साध्यं साधनौयं तथा साध्यव्यापकोपाधिव्यात्त्या साध्याभावोऽपि साधनीया व्याप्तिग्रहतौल्यादिति दृषकतावोजं। सेोऽयं सत्प्रतिपक्षएवेति
हेत्वव्यापकत्वज्ञानस्यावश्यकत्वात् समानसंविसंवेद्यत्वादिति भावः । ननु हेतावुपाधिव्यभिचारित्वग्रहदशायां उपाधावपि हेत्वव्यापकत्वज्ञानस्यावश्यकत्वेऽपि हेतौ माध्यव्याप्तिनिश्चयाभावान नदव्यापकत्वेन माध्यव्यापकत्वज्ञानं, उपाधौ तु माध्यव्यापकतानिश्चयसत्त्वेन ताभिचारित्वेन माध्यव्यभिचारित्वग्रह इत्यत आह, 'व्याप्तौति यथा माध्यस्य उपाधिव्याप्यताग्राहकव्यभिचारादर्शन-सहचारदर्शने स्तः तथा हेतावपि माध्यव्याप्यताग्राहके ते स्त इत्यर्थः, न हि तदानौं हेतौ साध्यव्यभिचारज्ञानमप्यस्ति, स्फुटे व्यभिचारे उपाध्युपन्यासस्य वैयादिति भावः । इदमापाततः यदा उपाधौ साध्यव्यापकताग्रहेऽनुकूलतर्कावतारादुपाधौ साध्यव्यापकतानिश्चयो जातः हेतौ तु माध्यव्याप्यतामहे अनुकूलतर्कानवतारात्तत्र साध्यव्याप्यतानिश्चयो न जातः तदैव व्यभिचारानुमानसम्भवात् । 'तस्मादिति । न च माध्यव्याप्यहेत्वव्यापकतयोपाधेः माध्याव्यापकत्वज्ञानात् कथं तव्यतिरेकेण मत्प्रतिपक्षस्यैव