________________
उपाधिवादः ।
१.१
भोपाधित्वस्वीकाराञ्च पक्षेतरेऽतिव्याप्तेश्च। न च व्यतिरेके पर्वतेतरान्यत्वादित्यच इतरान्यत्वस्यासिविवार
सम्मन्धेन तस्य साधनाव्यापकत्वात्। न च तथापि पचे तादात्मसम्मन्धेन माध्याव्यापकतया कथमतिव्याप्तिरिति वाच्यं । 'अतिव्याप्तेरित्यस्य उक्रदूषणोपयिकत्वरूपज्ञानस्य अतिप्रसकरित्यर्थात् पक्षातिरिक्त एव साध्यव्यापकत्वस्थ ग्राह्यत्वादन्यथा माध्यसन्देहदशायामुपाधित्वग्रहः कुत्रापि न स्यादिति भावः । न चेतरशब्दस्य सर्वनामतया सर्वनामका-पत्तिरिति वाच्यं । पच इतरो यस्मादिति बहुव्रीहिसमासात् “न वहुबोहावित्यनेन सर्वनामकार्यनिषेधात्। 'व्यतिरेकइति माध्यव्यतिरेके साध्य इत्यर्थः, 'इत्यत्र' हेतो, 'इतरान्यत्वस्येति, वस्तुमात्रस्यैव किञ्चिदपेक्षया इतरत्वादिति भावः ।• 'व्यतिरेके व्यर्थविशेषणत्वादिति खव्यतिरेकेण साध्यव्यतिरेके माध्ये व्यभिचारावारकविशेषणवादित्यर्थः, 'न म इति, तथाच येन रूपेण माध्यव्यापकता तद्रपावच्छिन्नखाभावेन साध्याभावमाधने व्यभिचारावारकविशेषणशून्यत्वे सतौति विशेषणं देयमिति भावः । 'बाधोत्रौतस्येति बाधोत्रीतत्वं 'बाधेन पक्षे माध्यबाधेन, साध्यव्यापकतया प्रमितत्वं, वहिरनुष्णः कृतकवादित्यादौ वहौतरत्वस्येत्यर्थः, 'न चेष्टापत्तिरिति, व्यभिचारावारकविशेषणत्वेन व्यर्थविशेषणतया सत्प्रतिपक्षोत्रायकत्वस्योपाधेर्दूषकतावौजस्य तत्राभावादिति भावः । “विशेषणं विनेति वयादिविशेषणं विनेत्यर्थः, 'व्याप्ययहेणेति व्याप्तियहासम्भवेनेत्यर्थः, 'तत्मार्थकत्वादिति वया