________________
२..
सावचिन्तामणे धित्वं, दूषकतावीजसाम्यात्। मिवातनयत्वेन श्यामत्वसाधने शाकपाकजत्वस्य प्रत्यक्षस्पर्शाश्रयत्वेन वायोः प्रत्यक्षत्वे साध्ये उतरूपकात्वस्य च शास्त्रे प्रयोजकत्वे
दित्यादौ संयोगादावव्याप्तिः द्रव्यं पृथिवौवादित्यादौ संयोगादाबतिव्याप्तिर्वा इति वाच्यं । तथापि द्रव्यं पृथिवौवादित्यादौ तसत्संयोगव्यकावतिव्याप्तेदुचारत्वादिति दिक् ।
'साधन-पक्षधति वायुः प्रत्यक्षः प्रत्यक्षविषयाश्रयत्वादित्यादौ पक्षधर्मवहिव्यत्वावच्छित्रप्रत्यक्षत्वव्यापके उद्भूतरूपवत्त्वे काकः श्यामो मित्रातनयत्वादित्यादौ माधनावच्छित्रसाध्यव्यापके भाकपाकजत्वे चाव्याप्तिरित्यर्थः, तयोः माध्यवत्रिष्ठाभावाप्रतियोगित्वाभावादिति भावः। 'तयोः' पक्षधर्म-साधनावच्छिन्नसाध्यव्यापकयोः, 'दूषकतेति, वक्ष्यमाणरीत्या उभयचैव व्यभिचारोबायकत्वसत्त्वादिति भावः । तयोरुपाधित्वानङ्गीकारे सिद्धान्तविरोधमण्याह, 'मिति, काकादेरित्यादि, 'प्रत्यक्षस्पर्णाश्रयत्वेनेति प्रत्यक्षस्य स्पर्श: विषयतारूपः सम्बन्धः यति व्युत्पत्त्या प्रत्यक्षविषयाश्रयत्वेनेत्यर्थः, तथाचाये माधनावच्छिन्नमाध्यव्यापकत्वं द्वितीये पक्षधर्मावच्छिन्नमाध्यव्यापकबमिति भेदेनोदाहरणदयमिति ध्येय(१) । 'प्रयोजकत्वेन' व्यभिचारानुमानप्रयोजकत्वेन, ‘पचेतर इति पर्वतो धूमवान् वहेरित्यादौ पर्वतेतरादावित्यर्थः । न च पक्षेतरस्य प्रमेयत्वादेः सर्वत्र सत्त्वेन साधनव्यापकतया कथमतिव्याप्तिरिति वाच्य। तादात्म
(१) इति भाव इति ख, ग ।