________________
सामान्यलक्षमा।
तवन हनं स्वसामग्रीविरहात, अतो. घटत्वादिसकलविशेषज्ञानेऽपि स घटो न वेति संशय इति ।
तथास्तु खमते भेदाग्रहमपेक्ष्य लाघवात्तद्विशेष्यक-तत्प्रकारकज्ञानस्य तद्विशेष्यक-तत्प्रकारकेच्छां प्रति हेतुतया सुखत्वादिरूपेणामिद्धसुखादाविच्छानुरोधेन सामान्यलक्षणावश्यकौति वाच्यं । खमतेऽपि सुखत्वादिरूपेण सिद्धसुखादावेवेच्छोत्पद्यते अमिद्धसुखे इच्छानुत्पादेऽपि क्षतिविरहात् । एवं चिकौर्षापि पाकवादिरूपेण वर्तमानखकृतिमाध्यत्वभ्रमात् सिद्धपाकादावोत्पद्यते नासिद्धपाके चिकोर्षाया अयथार्थत्वेऽपि(१) चतिविरहात् तत्तत्याकवरूपेणैव विशेषदर्शनसत्त्वेन भ्रमोत्पत्तावपि बाधकाभावाच्चेत्यस्य सुवचत्वात् । न च तत्र सिद्धत्वज्ञानं विरोधौति वाच्यं। तदवच्छेदेनाभिद्धत्वज्ञानस्यैव नत्प्रकारकेच्छां प्रति विरोधित्वात् । न च सुखत्वाद्यवच्छेदेनं सिद्धत्वज्ञानं, प्रकृते तत्मत्त्वे इच्छोत्पत्तेः केनाप्यनङ्गौकारात्। वस्तुतस्तु मामान्यलक्षणां विनापि अयं कालः सुखोत्पादकालौनध्वंसप्रतियोगी अयं कालः पाकोत्पादकालौनध्वंसप्रतियोगी सृष्टिकालवादित्याद्यनुमानात् पक्षधर्मताबलेनामिद्धसुखादेरसिद्धपाकादेव ज्ञानसम्भवः सामान्यलक्षणानभ्युपगमे विशिष्टबुद्धिसामान्यं प्रति विशेषणज्ञानस्थापि हेतुत्वानभ्युपगमेन पक्षधर्मताबललभ्यामिद्धसुखादेर्ज्ञानविरहेऽपि चतिविरहात् ज्ञाते च सिद्धपाके ज्ञानलक्षणाप्रत्यासत्त्यैव तत्र स्वमते
(१) अनुत्पादेऽयोति क•।