________________
२६०
तत्त्वचिन्तामो
सिद्धान्तात्। न च सर्वज्ञत्वे संशया न स्यादिति दोषः, घटः स इति घटत्वप्रकारकं हि ज्ञानं संशयविरोधि
ज्ञानेछयोः कार्य-कारणभावे सुखत्वादिप्रकारक-सिद्धसुखादिजानादमुपस्थितासिद्धसुखादाविवानुपस्थिते पदार्थान्तरेऽपि सुखत्वादिप्रकारकेच्छापत्तिः। न च पदार्थान्तरे सुखत्वाद्यसंसर्गाग्रहासत्त्वाब तच्छेति वाच्यं। अनुपस्थितेऽसंसर्गाग्रहस्य सुतरां मत्त्वात्। न च तत्प्रकारकज्ञानत्वेन तत्प्रकारकतदाश्रयविषयकेच्छात्वेन कार्य-कारएभावो न तु ममानप्रकारकत्वं प्रत्यासत्तिरिति वाच्यं। रजतत्वादिप्रकारकज्ञानाचमस्थले इत्यादौ रजतत्वादिप्रकारकेच्छानुपपत्तेः । न च परस्य तच्छानुपपत्तिः, एनौ रजतार्थिप्रवृत्त्यनुरोधेन तेनापि तदङ्गौकारात् तस्मादनुपस्थिते उपस्थितेष्टभेदाग्रहादिच्छति परेणाभ्युपेयं । अतएव इदक्वादिना उपस्थिते शत्यादौ रजतत्वेनेच्छा तथाच भाविनि विषये ज्ञात एवेच्छेति तदर्थमवश्यं सामान्यलक्षणा खोकरणेयेति चेत्। न। समानप्रकारकत्वात्यासत्त्या ज्ञानत्वेनेच्छात्वेन समवायघटितमामानाधिकरण्यप्रत्यासत्त्या तत्प्रकारकज्ञानत्वेन तत्प्रकारकेच्छात्वेनैव सामान्यकार्य-कारणभावः, विशेषतस्तु रजते रजतत्वप्रकारकेच्छायां दोषाभावः, अरजते रजतत्वप्रकारकेच्छायाञ्च रजतेन सममग्टहीतभेदस्यारजतस्य ज्ञान हेतुरिति(१) परसिद्धान्तात् । न च तथापि परसिद्धान्तो यथा
(१) रजतेन समं भेदायह एव हेतुरितीति घ० ।