________________
सामान्यलक्षणा।
२८९
तु तदानीमपि तत्र सत्त्वात् । श्रतएव न्यायनये भ्रमं प्रत्यपि विषयबाधस्य न विषयबाधत्वेन जनकत्वं अतीताद्यधिकरणे घटाभावादिभ्रमे व्यभिचारात् किन्वभावत्वेन, यत्र विशेष्यतासम्बन्धेन तमस्तत्र तबदवृत्तिविशेषणतासम्बन्धेनाभाव इति सामानाधिकरणं प्रत्यासत्तिः। न च तथाप्यधिकरणतात्व-प्रतियोगितात्वादेरखण्डातिरिक्रपदार्थवनये तमादाय विनिगमनाविरह इति वाच्यं । तस्याखण्डातिरिकपदार्थत्वनये तेनापि रूपेण कारणत्वस्येष्ठत्वात् धर्मत्रय-चतुष्टयानामेव तादृशानां सम्भवेनानन्तकार्य-कारणभावाभावात् । वस्तुतस्तु न्यायनये प्रमामामान्यं प्रति ज्ञानसामान्यमेव गुण: तदनिष्ठविषयतासम्बन्धेन मामानाधिकरण्यं प्रत्यासत्तिः, वस्तुपदादिजन्यवस्तुमात्रविषयकशाब्दबोध-वस्तुत्वादिप्रकारकवस्तुमात्रविषयकानुमिति-वस्तुत्वादिप्रकारकवस्तुमात्रविषयकस्मरणदिरूपस्य यत्किञ्चिज्ज्ञानस्यानन्तसंमारेऽवश्यं कस्यचित् पुरुषस्य सर्वत्र सर्वदा विषयतासम्बन्धेन मत्त्वेन अन्ततो भगवजज्ञानस्यैव तेन सम्बन्धेन सर्वच सर्बदा सत्त्वेन च व्यभिचाराभावात् तदेव च लाघवात्, परनयेऽपि तया प्रत्यासत्त्या विशिष्टबुद्धिसामान्य प्रति हेतुः यत्र तनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन ज्ञानोत्पत्तिः तत्र तदनिष्ठविशेष्यतासम्बन्धेन ज्ञानमिति सामानाधिकरण्यं प्रत्यासत्तिः भ्रमानभ्युपगमेन तत्र व्यभिचारविरहात्। भगवदनभ्युपगमेऽपि संसारस्थानादितया सर्वदेव सर्वत्र विशेष्यतासम्बन्धेनावश्यं कस्यचित् पुरुषस्य वस्तुपदादिजन्यवस्तुत्वादिप्रकारकवस्तुमात्रविषयकशाब्दबोधादिसत्त्वेनाद्यप्रमायामपि व्यभिचारविरहाच । 'ननु तथापि परनये समामप्रकारकत्वेन
37