________________
तत्वचिन्तामणै
समानविषयकवे सत्यपि समानप्रकारकज्ञानाभावेनेछा-कृत्योरभावात् तस्यावश्यकत्वेन गौरवाचेति पर
नये परनये वा कथं विषयबाधाभावस्य विषयरूपस्य निरुतविशेव्यवघटितसामानाधिकरण्यप्रत्यासत्या जमकत्वं पाकरमघटादौ ग्यामादिप्रमायामुपनौतभानानुमित्यादिरूपायां व्यभिचारादिति वाच्यं । विषयबाधस्य हि निरवच्छिन्नाधारतासम्बन्धनाभाव:(१) न विषयरूपः किन्वतिरिक्त: विषयस्थातीतत्वादिदशायामपि विषयवति तत्मत्त्वात् । न च तथापि केवलान्वयिधर्मप्रमायां विषयबाधस्थाप्रसिद्भुतया तदभावस्य जनकत्वासम्भव इति वाच्यं । तत्र तस्याजनकत्वेऽपि चतिविरहात् तदभाववतोऽप्रसिद्धत्वेनापत्तिविरहात् । अस्तु वा विषयाबाधस्य विषयबाधाभावत्वेन न जनकत्वमपि तु मामान्यतोऽभावत्वेन, यत्र तहबिष्ठविशेष्यतासम्बन्धेन तविष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन वा ज्ञानोत्पत्तिः तत्र तहविष्ठविशे. धणतासम्बन्धेनाभाव इति सामानाधिकरण्यं प्रत्यासत्तिः। न च भावत्वमादाय विनिगमनाविरहः, भावत्वस्याभावभिन्नखादिरूपतया गुरुत्वात्। न च संयोग-समवायादिसम्बन्धेन घटादिप्रमायां द्रव्यवगुणत्वादिमादाय विनिगमनाविरह इति वाचं। अतीतानागताधिकरणेषु संयोगादिसम्बन्धेन घटादिप्रमाां व्यभिचारात अतीतवादिदशायर्या अतीताधिकरणे द्रव्यादिमत्त्वविरहात् अभाववत्वस्य
(१) निरवचिनविशेषणतासम्बन्धेनाभाव इति ।