SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९६ तत्वचिन्तामो जातेषु सर्वेषु सिहं विहायासिझे इच्छा भवतीत्यभ्युपेयं। तन्न। असिहस्याज्ञानेऽपि सिहगोचरचानादेव इच्छाप्रवृत्तिस्वाभाव्यादसिद्धे तयोरुत्पत्तेः । न चातिप्रसङ्गः, ख्यात्यापत्त्या तत्र तत्प्रकारकज्ञानासम्भवादसिद्धपाके च सन्त्रिकर्षाभावेन तत्प्रकारकज्ञानासम्भवादिति वाच्या पाकादौ वर्तमानखकतिमाध्यताप्रकारकज्ञानं हि नेन्द्रियेण तस्यातौन्द्रियत्वात् किन्तु अनुमानेन, तथाच पाकत्वप्रकारक-सिद्धपाकज्ञानादेव पाकत्वप्रकारेणसिद्धपाके यथाकथञ्चित्प्रसिद्धस्य वर्तमानवकृतिसाध्यत्वस्थानुमानं पक्षधर्मताजानानुमित्योरपि ममानप्रकारकत्वेनैव कार्यकारणभावात्। न च वर्तमानस्वकृतिव्यतिरेकप्रयुक्रव्यतिरेकप्रतियोगित्वादिरूपस्य वर्त्तमानवकृतिमाध्यत्वानुमापकलिङ्गस्य सिद्धपाके बाधादसिद्धपाके च विना सामान्यलक्षणां ज्ञातमशक्यत्वात् परामर्शासम्भवेन कथमनुमितिरपौति वाच्यं । स्वाश्रयवृत्तिपाकत्ववत्तात्मकपरम्परामम्बन्धेन पाकत्वप्रकारेण सिद्धपाक एव तादृशलिङ्गवत्तापरामर्शसम्भवात् परामर्शानुमित्योरपि ममानविशेष्यतावच्छेदकत्वेनैव कार्य-कारणभावात्, येन सम्बन्धेन व्याप्यताग्रहः तेनैव सम्बन्धेन हेतमत्ताज्ञानमनुमितिहेतुरिति नियमच परेषामसिद्धः किन्तु येन सम्बन्धेन व्याप्यताग्रहस्तेन सम्बन्धन हेतमत्ताज्ञानमिव येन सम्बन्धेन व्याप्यतायहस्तेन सम्बन्धेन यत्खाधिकरणं तदृतिपक्षतावच्छेदकवत्त्वसम्बन्धेन (१) सबोरपपत्तेरिति ख., ग०।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy