________________
अथ सामान्यलक्षणासिद्धान्तः ।
उच्यते यदि सामान्यलक्षणा नास्ति तदानुकलतर्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात्
अथ सामान्यलक्षणासिद्धान्तरहस्यं । 'यदौति, 'मामान्यलक्षण नास्तौति सामान्यलक्षणयाः प्रत्यामत्तिता नास्तीत्यर्थः, 'अनुकूलतर्कादिकं विनेति व्यभिचारज्ञानप्रतिबन्धकनर्काधभावदशायामित्यर्थः, 'यभिचारमंशयः' धूमो वहिव्यभिचारी न वेत्यादिव्यभिचारसंशयः, 'प्रसिद्धधूमे' मकललौकिकसनिकृष्टधूमे, वजिसम्बन्धज्ञानात्' (१)वहिव्याप्यत्वनिश्चयात्, ‘मानाभावेन' मन्त्रिकर्षाभावेन, 'प्रज्ञानादिति संशये विशेष्यतया भानासम्भवादित्यर्थः, परनये नव्यनैयायिकनये च धर्मिज्ञानस्य संशयाहेतुत्वेऽपि संशयस्य धम्यंगे प्रत्यक्षरूपतया धर्मोन्द्रियमन्त्रिकर्षस्थावश्यं देतत्वादिति भावः । 'मामान्येन त' धूमत्वमामान्यलक्षणमन्निकर्षण तु, 'सकलधूमोपस्थितौ' सकलधूमप्रत्यक्षस्वीकारे, 'धूमान्तरे' कालान्तरीय-देशानरीय
(९) 'वह्निसम्बन्धज्ञानात्' इति टीकाकारस्य पाठधारणेन कस्यचिन्मूल
पुस्तकस्य 'वह्निसम्बन्धास्थामात्' इत्यत्र 'वह्निसम्बन्ध ज्ञानादिति पाठोऽनुमौयते ।