________________
নন্দিনী
इति श्रीमहाधोपाध्यायविरचिते तत्वचिन्तामणौ अनुमानास्थहितीयखण्डे सामान्यलक्षणापूर्वपक्षः ।
खसत्तिसकलधर्मप्रकारेण सर्वेषां पदार्थानां ज्ञानवान् स्थादित्यर्थः, प्रमेयत्वसामान्यलक्षणप्रत्यासत्या पक्षवृत्तिप्रमेये व्याप्तिप्रत्यक्षदशायां तथा प्रत्यासत्या प्रमेयमात्रस्यैव ज्ञानात्तदनन्तरं प्रमेयं प्रमेयवदित्याकारकसकलपदार्थविशेष्यक-स्वस्ववृत्तिमकलधर्मप्रकारकोपनौतभाने बाधकाभावादिति भावः। नन्वस्तु सर्वज्ञत्वं किं मश्छिन्नमित्यत पाह, 'तथाचेति, परकीयज्ञानविषये विशिष्य स्वज्ञानाविषये, स्वस्थ खरूपतो घटत्वप्रकारकेदश्वधर्मितावच्छेदकज्ञानाविषय रति यावत्, 'तस्य' पुरुषस्या), 'तदन्यतरेति घटत्व-तदभावयोरन्यतरनिश्चयादित्यर्थः, एतच्च समानविषयकनिर्णयमात्रस्यैव विरोधित्वमित्यभिमानेन । गारते, ‘प्रमेयत्वेनेति, 'तदज्ञानेति घटत्याज्ञानेत्यर्थः ।
इति श्रीमथुरानाथ-तर्कवागौशविरचिते तत्त्वचिन्तामणिरहस्ये अनुमानास्यद्वितीयखण्डरहस्ये मामान्यलक्षणापूर्वपक्षरहस्यं ।
(e) "तथाच परकीयज्ञानविषये घटत्वं वर्तते न वेति तस्य संगायो न स्यात्" इति कस्यचिन्मूलपुस्तकस्य पाठमनुस्मृत्य 'तस्येति मूलपाठो तो व्याख्यातच रहस्य कृतेति ।