________________
अनुमिनिनिरूपणम् ।
मान् इत्यादिधमानुमितेर्वहिव्याप्यजलवान् पर्वतइत्यादिधमजन्यपर्वतावक्रिमानित्यादिप्रमानुमितेश्च तादृशधर्मघटनयैव संग्रहात् । एवं व्याप्तिविशिष्टश्चासौ पक्षधर्मश्चेति व्याप्तिविशिष्टपचधर्मः तस्य भावः व्याप्तिविशिष्टपक्षधर्मति कर्मधारयोत्तरभावप्रत्ययेन व्याप्तिविशिष्टत्वसमानाधिकरणपक्षधर्मतायाः ज्ञानजन्यं ज्ञानमनुमितिरित्यर्थाऽपि सम्भवति, भ्रमानुमित्यव्याप्यादेर्यथोकरूपेणैव वारणात् । एवं व्याप्तिविशिष्टश्च पक्षधर्मश्च व्याप्तिविशिष्ट-पक्षधर्मी तयोर्भावः तथा तज्ज्ञानजन्यज्ञानमिसि द्वन्दोत्तरतल्प्रत्ययेन व्याप्तिविशिष्टत्वपक्षधर्मत्वाभयविषयकज्ञानजन्यं ज्ञानमनुमितिरित्यर्थोऽपि सम्भवति, धूमो वहिव्याप्यः पालोकवान् पर्वत इति ज्ञानजन्ये धूमोवहिव्यायः धूमवान्पर्वत इति ज्ञानजन्ये चातिव्याप्तिः ज्ञानपदस्य ज्ञानविशेषपरत्वेनैव वारणदिति प्राङः। ___ केचित्तु व्याप्तिप्रकारकपचधर्मताज्ञानजन्यत्वमेव लक्षणं जन्यवध परामर्थत्वावच्छिन्नकारणताप्रतियोगिकं याचं, परामर्शत्वञ्च अनुमितित्वावच्छिवकारणतावच्छेदकतया सिद्धोमानसत्वव्याप्यजातिविशेषः, सर्वत्र मानसपरामर्शादेवानुमितिरित्यभ्युपगमात् क्षणविलम्बस्य प्रपथनिर्णयत्वात् । एवञ्च न काप्यतिप्रसङ्गः अन्यत्र तादृप्रजातिवि'विशेषेणाडेतत्वात्। इत्यञ्च तादृशधर्मघटनापि न कर्त्तव्या वहिव्याप्यधूमवान्पर्वत इति निश्चयस्य परामर्थत्वावच्छिनकारणतानिरूपितानुमितित्वावच्छिवजन्यताया अनुमितिमात्र एव मत्वात्, आपत्तेच कारणतावच्छेदके अप्रामाण्यवानास्कन्दितत्वस्याधिकस्य प्रवेशादेव वारणात् श्रापत्तीतरत्वेन वा चरमज्ञानं विशेषणीयमित्याहुः ।
16691