________________
सामान्य रक्षणा।
तादा संयोगादेरभावादिति वदन्ति, तदपरेन मन्यन्ते, तथाहि धूमत्वावच्छिन्ना व्याप्तिः सन्निकृष्टधमविषये धमत्वेन प्रत्यक्षेण ज्ञायते ततः स्मृता सा तृतीयलिङ्गपरामर्श पक्षनिष्ठधूमत्तितया ज्ञायते तताऽनुमितिः तदनभ्युपगमेऽपि सन्निकृष्टधूमविषये धूमत्वेन धूमा
बाधादेव तद्दाधात्, मानसस्य तु तदतिरिक्तस्यापि इदं रजतमित्याथुपनौतविशेष्यकश्चमस्य उपनौतक्त्यादिमुख्यविशेष्यत्वमनुभवसिद्धमतो नालोकत्वं। न च तथापि घट-घटत्वनिर्विकल्पकोत्तरं जाय. मानेऽयं घट इत्यादिविशिष्टप्रत्यक्षे घटवादेर्मुख्यविशेष्यत्वापत्तिः लौकिकसन्त्रिकर्षरूपविशेषसामग्रीसत्त्वादिति वाच्यं । तत्राप्यमति बाधके घटाद्यंशे घटत्वादेः प्रकारत्ववन्मुख्य विशेष्यत्वस्यापौष्टत्वात् इति।
केचित्तु संसर्गावच्छिन-तद्विषयतामालिज्ञानत्वेन कारणता योगजधर्माजन्यसामान्यप्रत्यासत्यजन्यतविषयकप्रत्यक्षत्वेन कार्यता, तद्विषयिता चालौकिकी ग्राह्या, तेन तलौकिकप्रत्यक्षे न व्यभिचारः, एवञ्च(१) तद्विषयकप्रत्यक्षत्वमात्रस्य कार्य्यतावच्छेदकतया इदं रजतमिति शुक्रिविशेष्यकमानसचमोऽपि न शुक्रिज्ञानं विना(२) इत्याहुरिति संक्षेपः। विस्तरस्त अस्मत्कृतमिद्धान्तरहस्येऽनुसन्धयः ।
(१) तथाचेति ग, घ०। (२) चत्र “वहिरिन्द्रयजोपनीतभाने उपनौतस्य मुख्यविशेष्यत्वनिरासश्च
उक्लकमेण" इत्यधिकः पाठः चिह्नितपुस्तके वर्तते ।