________________
सामान्यलक्षणा।
२६६
विशेष्यकज्ञानादपि घटत्वादिप्रकारकोपनौतभानोदयात् विनध्यदवस्थलौकिकसत्रिकर्षजन्यघटत्वादिनिर्विकल्पकानन्तरमपि घटत्वादिप्रकारकप्रत्यक्षापत्तिवारणाय संसर्गावच्छिन्नेति विषयताविशेषणं ।
केचित्त(९) ज्ञानलक्षणयाः सप्रकारकघटत्वादिजानत्वं कारणतावच्छेदकं । न चैवं विनश्यदवस्थलौकिकमन्निकर्षजन्यद्रव्यत्वादिविशिष्टबुद्ध्यात्मक-घट-घटत्वादिनिर्विकल्पादपि घटत्वादिप्रत्यचापत्तिरिति वाच्यं। इष्टत्वात् सवांशे निर्विकल्पकस्य प्रत्यामत्तित्वानभ्युपगमादित्याहुः । तदसत्(९) तथा मति मी निर्जिकल्पकादपि दृष्टापत्तेः सुकरतया सप्रकारत्वोपादानस्थापि कारणतावछेदके व्यर्थत्वापत्तेः मविशेष्यकत्वसांसर्गिकविषयतामालित्वमादाय विनिगमनाविरहेण कार्य-कारणभावत्रयापत्तेश्च । ज्ञानलक्षणयाः कार्यतावच्छेदकञ्च घटत्वादिप्रकारकप्रत्यक्षत्वं, घटत्वादिज्ञानं विनापि जायमाने प्रमेयत्वादिसामान्यलक्षणजन्यघटत्वादिमुख्यविगेथ्यकप्रत्यक्षे व्यभिचारवारणय विषयित्वमपहाय प्रकारिताप्रवेशः, कारिता अलौकिको ग्राह्या तेन निर्विकल्पकजन्यप्राथमिकतद्विशिलौकिकप्रत्यक्षे न व्यभिचारः । न चैवं यत्र ज्ञानलक्षणसन्निकर्षी लौकिकसत्रिकर्षश्च इयमेव वर्त्तते तत्र कौदृक्ज्ञानं स्थादिति वाच्य। त्रि लौकिकालौकिकोभयप्रकारिताकस्यैकस्यैव प्रत्यक्षस्यैवोत्पत्तेः विषयेतायाः सामर्य्यस्यादोषत्वात्(२)। न च तत्प्रकारकज्ञानं विनापि (९) उच्छ सलास्विति घ० (२) तत्तुच्छमिति घ। (३) लौकिकालौकिकविषयत्वयोमिथः सामानाधिकरण्यस्यादोषत्वादि
वर्थः।