SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो पत्र जातित्वरूपेण यत्किक्षिजातिमाचप्रकारकशाब्द-सत्यादिधीस्तत्रापि मध्ये परम्परासम्बन्धेन ध्वंसत्वादिप्रकारकमानसोपनौतभानामारमेव, जातिमतः सर्वस्य प्रत्यक्षाभ्युपगमात् क्षणविलम्बे क्षतिविरहात् । न च परम्परासम्बन्धेन ध्वंसत्वप्रकारकज्ञानस्यैव तत्र प्रत्यासत्तित्वे ध्वंस इत्यादिरेव तत्फलं स्यात् (१) न तु जातिमदिति मामा न्यप्रकारकज्ञानस्य मुख्य विशेष्ये सामान्यप्रकारकज्ञानजनकत्वनियमादिति वाय। विशेषणज्ञानार्थं जातित्वसामान्यलक्षणया मध्ये सकलजातिमुख्थविशेष्यकज्ञानस्यावश्यकत्वात् ज्ञानलक्षणयैव जातिमदिति फलस्थापि सम्भवात् विविधविषयत्वस्येष्टत्वात्, एवं तद्व्यक्तित्वरूपेण घटत्वादिप्रकारकज्ञानानन्तरं जायमाने तब्यक्तित्वरूपेण घटत्वादिप्रकारक-तदाश्रयप्रत्यक्षेऽपि परम्परासम्बन्धेन तत्तव्यक्तित्वप्रकारकज्ञानमेव प्रत्यामन्तिरतोऽपि घटत्वादिसामान्यलक्षणायाः कार्यदिशि तदसंग्रहोऽपि न दोषायेति भट्टाचार्यानुयायिनः । सम्प्रदायविदस्त स्वरूपतोघटत्वादिप्रकारकनिखिलघटत्वाद्याअयप्रत्यक्ष प्रति घटत्वादिसामान्यलक्षणया यथोक्तरूपेणैव कार्यकारणभावः जातिवादिरूपेण घटत्वादिप्रकारकनिखिलघटलाअयप्रत्यचं प्रति तु जातित्वरूपेण यत्किञ्चिजातिप्रकारकज्ञानमेव हेतुः किं परम्परासम्बन्धेन जातिवादिघटकध्वंसत्वादिप्रकारकशानकल्पनया फलीभूतसाक्षात्कारस्य विविधविषयत्वकल्पनया वा। ज्ञानखक्षणायाः कारणतावच्छेदकन्तु सामान्यतः संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वं घटवादिप्रकारकज्ञानादिव घटवादि(१) ध्वंसत्ववदित्यादिरेव तत्र भानं स्यादिति घ०।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy