________________
सामान्यनक्षमा।
घटो न मुख्य विशेष्यः वहिरिन्द्रियस्थले उपनौतं विशेषणतयैव भामते, इति नियमात् । मुख्यविशेष्यत्वमप्यलौकिकरूपं ग्राह्यं तेन कालिकादिसम्बन्धेन स्वरूपतो घटत्वम्मरण-लौकिकसन्त्रिकर्षाभ्यां जायमाने लौकिकालौकिकोभयघटत्वप्रकारिताशालिनि अयं घट इति मुख्यविशेष्यकलौकिकप्रत्यक्षे न व्यभिचारः । अथ तथापि कालिकादिसम्बन्धेन स्वरूपतो घटत्वप्रकारक-घटविशेश्यकस्मरणान्जायमाने समवायसम्बन्धेन घटत्वप्रकारक-घटमुख्यविशेष्यकमानसोपनौतभाने व्यभिचारः मानसे उपनौतं विशेषणतयैव भामते इति नियमाभावात्, तत्र कालिकादिसम्बन्धेनैव घटत्वप्रकारकघटप्रत्यक्षं न तु ममवायसम्बन्धेनेत्युक्तावपि घटवदितिघटत्वादिस्मरणोत्तरं जायमाने परम्परासम्बन्धेन घटप्रकारकमानसोपनौतभाने व्यभिचारी दुर्बारः तदनभ्युपगमे तादृशस्मरणोत्तरं निखिलघटाश्रयमाक्षात्कारानुपपत्तेः द्रव्यप्रकारकज्ञानस्याप्रत्यासत्तित्वादिति चेत्। ना लाघवाद्यथोक्तरूपेण सामान्यलक्षणयाः कार्य-कारणभावकल्पने यथोकमानसे घटादिर्न मुख्य विशेष्यः किन्तु चक्रव्यहवत् घटत्वपुटितो भवन्नेव भासते इत्येव कल्यते यथोतकार्य-कारणभावस्येव बाधकत्वात् तत्तदनन्तोपनौतभानान्यत्वप्रवेशे गौरवात् सर्वत्रैव मानमोपनौतभाने च उपनौतमवश्यं मुख्यविशेष्यतया भामत इति नियमे मानाभावात्, असति बाधक एव मानसोपनौतभाने उपनौतस्य प्रकारत्व-मुख्यविशेव्यत्वलक्षणविविधविषयत्वाभ्युपगमात्, एवं खण्डशो दण्ड-पुरुषोभयविषयकसमूहालम्बनस्मरणोत्तरं जायमाने दण्डप्रकारकदण्डाश्रयपुरुषप्रत्यक्षेऽपि पुरुषो न दण्डांशे मुख्यविशेष्यतया भामते अपि तु चक्र
31