SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणौ घटवनिर्विकल्पकोत्तरं द्रव्यत्वसामान्यलक्षणया जायमाने यावद्घटमुख्यविशेष्यकप्रत्यक्षे लौकिकसत्रिकर्षमादया घटत्वप्रकारके न व्यभिचारः। न च तथापि कालिकादिसम्बन्धेन स्वरूपतो घटलादिप्रकारकबुद्यात्मकगवादिविशेष्यकसमवायसंसर्गकद्रव्यत्वप्रकारकस्मरणोत्तरं द्रव्यत्वसामान्यलक्षणया जायमाने यावद्घटमुख्यविशेष्यकप्रत्यक्षे उपनयमर्यादया समवायसम्बन्धेन स्वरूपतो घटत्वप्रकारके व्यभिचार इति वाच्यं । यथोक्नकार्य-कारणभावस्यैव बाधकवेन तत्र समवायसम्बन्धेन घटत्वस्याप्रकारत्वात्। अत्र घटत्वप्रकारकज्ञानं विनापि जातिवरूपेण गोत्वादिजात्यन्तरप्रकारकज्ञानाचायमाने जातिवरूपेण घटत्वादिनिखिलजातिप्रकारकनिखिलजात्याश्रयप्रत्यक्षे व्यभिचारवारणाय स्वरूपत इति घटत्वादिप्रकारिता विशेषणं, यथोककार्य-कारणभावस्यैव बाधकत्वेन तत्र स्वरूपतो घटत्वादेरप्रकारत्वात्। अत्र घटत्वादिविशेष्यकस्मरणदितो जायमाने विशेष्ये विशेषणमिति रौत्या समवायसम्बन्धेन स्वरूपतो घटत्वादिष्कारक-घटवदिदमित्याघुपनौतभाने व्यभिचारवारणय मुख्यविशेष्यत्वप्रवेशः, उपनौतभाने च याजौकिकप्रकारतानिरूपितत्वस्यालौकिकविशेष्यतायां मथुरानाथेन खौकृततया तुल्ययुक्त्या लौकिकप्रकारतानिरूपितत्वस्यालौकिक विशेष्यतायां खीकारस्य न्याय्यत्वादित्युच्यते, तदा न कोऽपि दोषः । न च कालिकादिसम्बन्धेन व्यमित्याकारकज्ञानोत्तरं एकत्र इयमिति रौत्या भायमाने समवायसम्बन्धेन घटत्वप्रकारक-घटोतव्यमित्याकारकज्ञाने व्यभिचार इति वाच्यं । एतादृश कार्यकारणभावबाधक बलादेव तादृश ज्ञानस्यैवासम्भवात् इति निगर्भः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy