________________
तावचिन्तामगै
समवायसम्बन्धेन घटत्वप्रकारकज्ञानानन्तरं कालिकादिसम्बन्धेन घटत्वप्रकारकनिखिलघटविषयकप्रत्यक्षस्य समवायसम्बन्धेन घटत्वप्रकारेण घटत्ववतः कालादेः प्रत्यक्षस्य च वारणय सम्बन्धातर्भावः। घटत्वादिप्रकारकज्ञानं विनापि द्रव्यत्वादिसामान्यलक्षण्या जायमाने द्रव्यत्वादिप्रकारकघटादिमुख्यविशेष्यकप्रत्यचे व्यभिचारवारगाय कार्यतावच्छेदके घटत्वप्रकारिताकेति । प्रकारित्वञ्चालौकिकं पाय(१) तेन घटत्वप्रकारकज्ञानं विनापि द्रव्यवादिविशिष्टबुड्यात्मक(१) अथ प्रकारतायामलौकिकत्वनिवेशनं व्यर्थं घटत्वाद्याश्रयताशालि
निष्ठमुख्यविशेष्यताया बपि अलौकिकत्वस्याग्रे निवेश नीयतया तादृशविशेष्यतायां घटत्वप्रकारतानिरूपितत्वनिवेशे नैव निरक्तव्यभिचारवारणसम्भवात् तथाहि निशक्तज्ञानस्य सन्निकरघटविशेष्यकघटत्वप्रकारकस्य घटत्वप्रकारतानिरूपिता घटनिचलौकिकमुख्यविशेष्यता या तु अलौकिकविशेष्यता सा न घटत्वप्रकारतानिरूपिता किन्तु द्रव्यत्वप्रकारतानिरूपितेति, घावश्यकच विशेष्यतायां प्रकारतानिरूपितत्वनिवेशनं अन्यथा कालिकसम्बन्धावच्छिन्नघटत्वप्रकारताकसमवायसम्बन्धावच्छिन्नद्रव्यत्वप्रकारताकज्ञानानन्तरं घटांशे लौकिकसन्निकर्षानन्तरच जायमाने व्यत्वप्रकारतानिरूपितघटनिसालौकिकविशेष्यताक-घटत्वनिष्ठलौकिकालौकिकोभयप्रकारतानिरूपितलौकिकविशेष्यताकप्रत्यक्षे व्यभिचारापत्तेः । न च तादृशप्रत्यक्षं नेष्यत रवेति वाच्यं । कार्यकारणभावस्य लाघवसत्त्वे उभयत्रालौकिकत्वनिवेशेन गौरवस्यान्याय्यतया पणापलापस्यान्याय्यत्वात् इति चेत् । न । तत्रापि यथा लौकिकसग्निकर्षमादया सन्निकट. • घटे घटत्वस्य भानं तथा असन्निवरघटेऽपि । न चासन्निकरघटे सबिकाभावात् कथं तस्य भानमिति वाच्यं । असनिवरघटे द्रव्य