________________
९.
सत्यचिन्तामो
भेदः, समवायसम्बन्धेनात्मनिष्ठतया हेतुतया च न पुरुषभेदेन कार्य-कारणभावभेद इति भावः। अत्र सामान्यमात्रस्य प्रत्यासत्तित्वेऽतीतानागतमामान्यप्रकारकज्ञानानन्तरं तत्प्रकारकनिखिलतदायसाक्षात्कारानुपपत्तिः कारणत्वेनाभिमतस्य सामान्यस्याव्यवहितपूर्वमभावादतोज्ञानप्रवेशः। नन्वेतावता अनित्यसामान्यस्थले घटत्वादिनित्यसामान्यस्थले च सामान्यज्ञानं प्रत्यासत्तिरस्तु घटत्वत्वादिना कारणत्वकल्पनामपेक्ष्य घटत्वादिज्ञानत्वेन हेतुताया लघुत्वात्, परममहत्त्वादिनित्यगुणाद्यात्मकसामान्यस्थले घटात्यन्ताभावादिनित्याभावात्मकसामान्यस्थले च कथं ज्ञानान वः सामान्यभेदेन कार्य-कारणभावभेदात्तच स्वरूपसतः परममहत्त्वादेरेव लाघवेन प्रत्यासत्तित्वौचित्यात् । न चैवं परममहत्त्वाद्यज्ञानदशायामपि तत्प्रत्यासत्त्या निखिलतदाश्रयसाक्षात्कारापत्तिरिति वाच्य। परममहस्वादिप्रकारकपरममहत्त्वाश्रयप्रत्यक्षत्वस्य कार्यतावच्छेदकतया विशेपणज्ञानरूपविशिष्टबुद्धिसामान्यकारणभावादेव(१) तत्र कार्याभावादिति चेत् । न । परममहत्त्वत्वादिनिर्विकल्पकानन्तरमाद्यविशिष्टज्ञानोत्पत्तिसमय एव परममहत्त्वादिप्रकारेण निखिलतदाश्रयमाक्षात्कारापत्तेः(२) परममहत्त्वादिविशेष्यकज्ञानादपि(३) सकलतदाश्रय(१) विशिलबुद्धिसामान्यं प्रति विशेषणज्ञानस्य खातन्त्रोण कारणत्व
मिति भावः। (२) निर्विकल्पकटतौयक्षण एव सामान्यलक्षणासन्निकर्षजन्यप्रत्यक्षस्य सर्वानुभवसिद्धतया निर्विकल्पकहितीयक्षणे तादृशप्रत्यक्षापति
रिति समुदिततात्पर्य । (२) विशिशबुद्धिसामान्य प्रति विशेषणज्ञानस्य विशेषणविषयकन्वेनैव
कारणत्वमिति विशेषणविशेष्यक ज्ञानस्यापि तत्कारणत्वं सवचमिति ।