________________
२५७
तत्वचिन्तामणे
दिविषयक, कथमन्यथा पर्वतीयधूमे व्यायग्रहे तस्मा
शिष्टपर्वतीयधूमवैशिष्यज्ञानासम्भवादिति भावः । तस्मादनुमितिरिति पर्वते धूमवरूपेण तद्वत्त्वनिश्चयादनुमितिरित्यर्थः, व्याप्तिविमिष्टवैशिष्वावगाहिनिश्चयस्यैव लाघवादनुमितिहेतुत्वादिति भावः । मनु मा किं संयोगादिसर्वाणषोढ़ाप्रत्यासत्त्यन्तर्गता तदतिरिका वेत्यत श्राइ, ‘मा चेति, 'इन्द्रियसम्बद्धति स्वजन्यज्ञानप्रकारत्वरूपेप्रियसम्बन्धात्रयस्य सामान्यस्य व्यक्तिषु धर्मिताख्यस्वरूपसम्बन्धरूपेत्यर्थः, खमिन्द्रियं, तथाच सामान्य लक्षणं निरूपकं यस्या इति युत्पत्त्या चक्षुरादिजन्यज्ञानप्रकारोभतधूमवादिसामान्यनिरूपिता धर्मिताख्यविशेषणतैव सामान्यलक्षण, मा चाभावादिग्राहकचचु:संयुक्तविशेषणतादिवदिशेषणताप्रत्यासत्त्यन्तर्गतैव । न चैवं धमवादिप्रकारकशाब्दबोध-स्मत्यादितः सकलधूमादिगोचरो मानसी बोधो न स्यान्मनोजन्यज्ञानविरहादिति वाच्यं। शाब्दादेरपि मनोजन्यत्वात्। न च तथापि धमत्वादिप्रकारकशाब्दबोधादितो निखिखधूमगोचरचाक्षुषादि स्यादिति वाच्यं । इष्टत्वात् प्राचीनेस्तप्रकारकचाक्षुषादित एव सकलतदाश्रयचाक्षुषाधुपगमात् इति भावः । पत्र धूमत्वादिसामान्यनिरूपितधर्मितामात्रस्य प्रत्यासत्तिले धूमत्वादेरशानदयायां निर्विकल्पकतज्ज्ञानदशायां विशेष्यतया तज्ज्ञानदशायाञ्च() तत्प्रकारेण तदाश्रयमकलप्रत्यक्षापत्तिः समवापाचेकसम्बन्धेन धमत्वादिप्रकारकशानदशायां कालिकादिसम्बन्धेन (१) प्रमेयमित्याकारकधूमत्वविषयक ज्ञानदशायामित्यर्थः ।