________________
२४
আমলল। बनीपाधिकत्वन्तु तलक्षणं। नन्वेषमुपाधिरसियुपजीव्यत्वेन व्यभिचारवत् हेत्वाभासान्तरं स्यात् न तु व्यात्यभावत्वेनासिद्धिरिति चेत्, तज्ज्ञानमुपजीव्यमपि गाहते न तु तदनवगाोति नियमात् द्रव्यत्ववाद्यवच्छिनप्रतियोगिताकत्वसम्बन्धेन खरूपतो द्रव्यत्वादेरभावे प्रकारत्वासम्भवादिति चेत् । न । स्वरूपतो द्रव्यत्वादिविधेयकानुमितेरसिद्धः अभावप्रत्ययोहोत्यादिनियमस्यैव वा अमिद्धेश्व। यदि च तादृशानुमितिरपि प्रामाणिको तनियमोऽपि च प्रामाणिकः तदान्यत्र माध्याभाववदवृत्तित्वज्ञानमेव हेतुस्तादृशानुमितौ च द्रव्यान्यावृत्तित्वादिरूपव्याप्तिज्ञानं हेतुरिति(१) प्रातः ।
ननु अन्योन्याभावगर्भव्याप्तिज्ञानस्यैवानुमितिहेतुत्वेऽनौपाधिकत्वज्ञानं अनुमितिजनकं इति प्रामाणिकप्रवादः कथमत आह,(२) 'अनौपाधिकन्विति, 'तपक्षणमिति लिङ्गविधया अन्योन्याभावगर्भव्याप्तिज्ञापकमित्यर्थः, तथाच प्रामाणिकप्रवादे जनकपद प्रयोजकपरनिति भावः । (१) तथाच अमावाशे द्रव्यत्वत्वेन द्रव्यत्वावगाहिदव्यत्वाभाववदत्तित्व
रूपयाप्तिज्ञानस्य कार्यतावच्छेदक द्रव्यत्वत्वावच्छिन्नविधेयताकानुमितिवं, भेदांशे खरूपतो द्रव्यत्वेन व्यावगाहिद्रव्यान्यायत्तित्वरूपव्यातिज्ञानस्य कार्यतावच्छेदकं खरूपतो व्यवविधेयताकानुमितित्व
मिति न नियमतोऽनुमितेर्दिविधविषयकत्वमिति तात्पर्य । (२) धनुमितिहेतुरिति प्रामाणिक प्रवादविरोध इत्यत बाहेति गः । (३) हेतुपदमिति ग।
82