________________
२४८
तत्त्वचिन्तामो साध्याभाववदवृत्तित्वरूपव्याप्तियहे माध्यतावच्छेदकद्रव्याखवाचवच्छिअप्रतियोगिताकत्वसम्बन्धेन माध्यस्य द्रव्यत्वादेः स्वरूपतोऽभावे प्रकारकत्वं तत्र स्वरूपतोद्रव्यत्वादिविधेयकानुमितिर्यच च तमुहे तादृशसम्बन्धेन द्रव्यवत्वादिरूपेण माध्यस्य द्रव्यत्वादेः प्रकारकत्वं तत्र द्रव्यत्ववाद्यवच्छिवविधेयिकेति कार्य-कारणभावभेदात् न नियमतो विविधविषयकवमिति वाच्यम्। प्रभावप्रत्ययो हि प्रतियोगिनि तद्धर्मवैशिष्यमवगाहमान एव तद्धर्मस्यावच्छेदकत्वमव
यद्रूपेण साध्यमभावे भासते तद्रूपेण साध्यानुमितिरिति नियमात्, अन्यथा प्रभावांशे द्रव्यत्वत्वेन द्रव्यत्वावगाहित्याप्तिबुद्धेः घटोजातिमानित्याकारकजातित्वप्रकारकद्रव्यत्वानुमित्यापत्तिः इत्याशय समाधत्ते अव्यत्वत्वायतिरिक्तत्यादिना । तथाच द्रव्यत्वत्वाद्यतिरिक्तधानवछिन्नद्रव्यत्वादिनिछविधेयताकानुमितित्वं तत्कार्यतावच्छेदकमिति समाधानं । अत्र तादृशविधेयतायामनवच्छिन्नान्तविशेषणानुपादाने जातित्वेन द्रव्यत्वानुमित्यापत्तिः । एवं द्रव्यत्वनिष्ठत्वानुपादाने सत्तासाध्यकघटः सन् इत्याकारकानुमित्यापत्तिरतस्तत्र उभयोपादानं । पत्रेयमनुपपत्तिः, तथा हि द्रव्यत्वत्वेन घटत्वाद्यनुमित्य सम्भवः तादृशुभमानुमितेः द्रव्यत्वनिष्ठविधेयताकत्वासम्भवात् । अत्रेदं समाधान द्रव्यत्वत्वाद्यतिरिक्तधानवच्छिन्नद्रव्यत्वादिनिठविधेयताकानुमितित्वपदेन किचिडमानवच्छिन्नद्रव्यत्वावृत्तिविधेयताभिन्नद्रव्यत्वत्वाद्यतिरिक्तधमानवच्छिन्नद्रव्यत्वादिनिष्ठविधेयताकानुमितत्वस्य विवक्षितत्वे पथ वा निरवच्छिनत्वविशिछदव्यत्वावृत्तित्व-द्रव्यत्वत्वानवच्छिन्नत्योभयाभाववविधेयताकानुमितित्वस्य विवक्षितत्वे न काप्यनुपपत्तिरिति विभावनौयं ।