________________
२०.
तत्त्वचिन्तामो ये चानुकलतर्क विनैव सहचारादिदर्शनमात्रेण व्याप्तिग्रहं वदन्ति, तेषां पक्षेतरत्वस्य साध्यव्यापकत्व
एप्रने(१), 'अनुमान एवेति प्रत्यक्षस्य तत्रासम्भवादित्यर्थः, तथाच तत्राप्यनुमाने तोपेक्षावश्यकौत्यनवस्था तदवस्थेति भावः। व्याप्तिग्राहकतर्कमूलभूतव्याप्तियहो न तर्कान्तरादपि तु व्याप्तिग्रहान्यथानुपपत्तिग्रहादेव इत्याह, 'न चेति, 'अनुमानत्वात्' व्याप्तिनिश्चयाधौनप्रवृत्तिकत्वात्, यथाश्रुतासङ्गतः परैरपत्तेरनुमानत्वानन्धुपगमात्, तथाच तचापि तर्कापेक्षावश्यकौत्यनवस्था तदवस्थेवेति भावः ।
तदेवं व्यभिचारादर्शनमहकृतं सहचारज्ञानं व्याप्तिग्राहक तर्कः शानुत्पत्तौ प्रयोजक इति व्यवस्थाप्य तर्कादनौपाधिकत्वग्रहस्ततदुभाभ्यां - मिलिवा व्याप्तिग्रह इत्येकदेभिमतमाशय दूषयति, 'अन्ये त्वेति, 'तदधीन इति तयोरधीन इत्यर्थः। अनौपाधिकत्वयहे व्याप्तिग्रहे च तर्कः खतन्त्रो हेतः, प्रमाणसहकारी वा, नाद्यइत्याए, 'तर्कस्येति तथाच प्रमाणस्य स्वतन्त्रतया जनकत्वनियमेन तर्कस्य प्रमाणत्वासम्भवात् जनकत्वाभाव इत्यर्थः, द्वितीयमाशङ्कते, 'व्यभिचारादौति, श्रादिपदादुपाधिपरिग्रहः । 'याघातात्' तर्काभावातिरिककारणान्तराभावात्, 'विरहः' अनुत्पादः । 'व्याप्तिय' अनौपाधिकत्वग्रहे।
(१) 'प्रमाणानुयोगे' प्रमाणपत्रे, इत्ययं पाठः ख०, ग०, घ• पुलकेष
नास्ति।