________________
सके।
२३६
नादभावग्रह इत्यनोपाधिकत्वं सुग्रहमिति। तत्तुच्छम्। अनुमानेन तत्साधने नवस्थानात् प्रमाणान्तरस्याभावात्।
च ती हेतस्तत्र च तर्के व्याप्यनुभवान्तरं हेतुरिति क्रमेणानवस्था तदवस्थैवेत्यत आह, तन्मूलेति व्याप्तिस्मरणमूलकोयः प्राग्भवीयो व्याप्यनुभवस्तन्मूलिका, 'अग्रे' भाविजन्मनि, व्याप्तिस्मरणपरम्परेत्यर्थः, तथाच जन्मान्तरौयव्याप्तिस्मरणमूलीभूतव्याप्यनुभवमूलौभूततर्के व्याप्यनुभवो न हेतुः किन्तु व्याप्तिस्मरणमिति नानवस्था कदाचित् अन्तरान्तरा व्याप्तिस्मरणेन विछेदात् तर्कधाराया अविरललमत्वाभावादिति प्राचामाशयः । अत्रेदमखरमवीजं, न हि कदाचिदन्तरान्तराविच्छेद एवानवस्थापरिहारः, किन्तु श्रात्यन्तिकविच्छेदएवेति मकलसम्प्रदायसिद्धमिति ।
कार्य-कारणभावविरोधादौनामनादिप्रसिद्धिविषयत्वनिश्चय एव कुत्रचित्त संशयनिवर्त्तक इति केचिद्वदन्ति तन्मतमाशय निराकरोति, 'यत्त्विति, 'अनादिमिद्धेति कार्यकारणभावविरोधादौनां विशेषणं, तथाच 'अनादित्वेन अनादिप्रसिद्धिविषयत्वेन, "सिद्धाः' निश्चिताः, कार्य-कारणभावादयः क्वचित्त संशयनिवर्तका इति नानवस्थेत्यर्थः, यथाश्रुते कार्य-कारणभावे विरोधे चानादिवस्य दुर्चचत्वात्, 'श्रादिना व्याप्तिपरिग्रहः। 'तत्रेति कार्य-कारभावादौनामनादिप्रसिद्धविषयत्वे इत्यर्थः, 'प्रमाणानुयोगे' प्रमा
मिति ।