________________
अमितिनिरूपणं।
प्रवेशात् व्याप्तेरुपनौतभानसामग्रीसत्त्वेन व्याप्तिघटकतया तथाप्यमावादिविषयकत्वाच । न वा वहिव्याप्यधूमवान् पर्वत इत्यादिविशिष्टस्मरणे तादृशविशिष्टानुभवस्य हेतुत्वेऽपि प्रतिव्याप्तिः, तस्य व्याप्तिघटकतया प्रभावादिविषयकत्वात् तत्र तादृशविलक्षणविषयताकशानवेन ज्ञानवेन() वा तादृशविशिष्टानुभवस्य हेतुतया तादृशविलक्षणविषयताकनिश्चयत्वेनाजनकत्वाच्च। न चैवं तादृप्रसंशयात् स्मत्यापत्तिः, संस्काराभावादेव ततः स्मरणानुत्पत्तेः संस्कार प्रति तादृशनिश्चयत्वेनेव हेतुत्वात् । न च विनिगमकाभावः, संशयस्थले संस्कारादिकल्पनागौरवस्यैव विनिगमकत्वादिति द्रष्टव्यार) न चाभावाद्यविषयकत्वेन चरमज्ञानविशेषणेऽभावादिविषयकानुमितौ अव्याप्तिः माध्य-हेलादेरननुगमात् एकोपादानेऽन्यानुमितावव्याप्तिः व्यतिरेक्यनुमितौ चाव्याप्तिः तच यथोक्तविलक्षणविषयताकनिषयत्वेना हेतुत्वादिति . वाच्यम्। तादृशकार्य्यतावदर्भवाद्यविषयकज्ञामवृत्तिप्रत्यक्षासमवेतधर्मसमवायित्वस्य विवक्षितत्वात्, इत्थञ्च पर्वता वझिमान् घटः सत्तावानित्याद्यन्वयव्याप्तिज्ञानजन्याभावाद्यविषयकानुमितिव्यक्तिमादायैवाभावादिविषयकानुमितौ अन्यसाध्यकानुमितौ व्यतिरेक्यालुमितौ च खक्षणसमन्वयः तवृत्तितादृअधर्मस्थानुमितिबस्य सर्वच सत्त्वात् । अत्र सत्ता-गुण-ज्ञानत्वानुभवत्वमादायातिव्याप्तिवारणाय
(१) मरणं प्रति विलक्षणसंखारस्य हेतुतयैवाविप्रसङ्गवार सम्भवतीति भावः। (२) संखारं प्रति ज्ञानत्वेन हेतुत्वे संशयोत्तरं संस्कारापत्तिरिति भावः ।