________________
तर्क।
'अन्ये तु विपक्षबाधकतर्कादनौपाधिकत्वग्रह एव सदधीना व्याप्तिग्रह इति, तदपि न, तकस्याप्रमाण- , त्वात्। व्यभिचारादिशानिरासहारा प्रत्यक्षादिसहकारी स इति चेत् । न । अनवस्थाभयेन तक विना
मन्दिग्धव्यभिचारीत्यर्थः । 'व्याप्तियाहकत्वात्' याप्तिग्रहे प्रयोजकवात् । ननु तथापि व्यभिचारज्ञानविरहानुकूलतर्कयोर्यभिचारिएयपि सत्त्वात् कथं प्रमा-भ्रमविभाग इत्यत आह, 'मत्तर्कादिति, यद्यपि तर्कस्य सत्त्वं मूलगैथिल्यादिदोषरहितत्वं, तदिभिष्टत्वमेव(१) आभासत्वं तच्च न प्रामाण्याप्रामाण्यप्रयोजकं वस्तुगत्या व्याप्तिसत्त्वे तादृशदोषविशिष्टामोयदि वहिव्यभिचारौ स्यात् प्रथिवौ न स्थादित्यादितर्कादपि प्रमा-धमयोरुत्पादानुत्पादाभ्यो व्यभिचारात्। एवं विशेषदर्शने मत्यत्वासत्यत्वमपि न प्रामाण्यादिप्रयोजक विषयस्थाबाधितत्वेऽसत्यादपि विशेषदर्शनात् प्रमा-धमयोरुत्पादानुत्पादाभ्यां व्यभिचारात् । न च तकस्य सत्त्वं वस्तुगत्या व्याप्तिमधिषयकत्वं, अाभासत्वञ्च वस्तुगत्या व्याप्यभाववद्विषयकत्वं, एवं विशेषदर्शनस्य सत्यत्वं वस्तुगत्या पुरुषत्ववद्विषयकत्वं, वस्तुगत्या तदभाववद्विषयकत्वञ्चासत्यत्वमिति वाच्यं। तस्यापि स्वतःसिद्धशकाविरहस्थले तर्क विनैव व्याप्तिग्रहेण व्यभिचारात्तस्य प्रमाभ्रमप्रयोजकत्वासम्भवात् । तथापि 'मत्तात्' मत्यव्याप्तिज्ञानात्,
(१) मूलचिल्यादिदोषविशिष्ठत्वमेवेत्यर्थः ।