________________
अपरे तु यत्र तर्के व्याप्त्यनुभवो मूलं तच तान्तरापेक्षा, यच तु व्याप्तिस्मरणं हेतुः तब न तान्तरापेक्षेति नानवस्था, अस्ति च जातमात्राणामिष्टानिष्टसाधनतानुमितिहेतुव्याप्तिस्मरणं, तदानीं व्याप्त्यनुभावकाभावात्, तन्मूलानुभवमूला चाग्रेऽपि व्याप्तिस्मरणपरम्परेति।
सत्त्वमात्रमपेक्षितं न तु तदा तत्र तदुत्तरं तमत्त्वमिति) विभाव्यते तदा तुल्यं प्रकृतेऽपौति भावः । नन्वेवं व्याप्तिज्ञानं भूयोदर्शनादिति सिद्धान्तः कथं सङ्गच्छतेर) इत्यपेक्षायामाह, 'न चेति, वनि-धूमयोर्भूयःसहचार निश्चयं विना धूमे वयसमवहितमामय्यजन्यत्वनिश्चयासम्भवात् अयमेव धूमोवहिपूर्वक एतदन्यस्तु न, एवं एतद्धमदयमेव वहिपूर्वकं न त्वेतदन्य इत्यादिशङ्कासम्भवादिति भावः । 'भूयोदर्शनादरः' कदाचित् कुत्रचित्तदुपयोगः, 'म विति, 'सः' भूयासहचारग्रहः, 'खत एव' माचादेव, 'प्रयोजक इति व्याप्तिग्रहप्रयोजक इत्यर्थः । भूयोदर्शनस्य संस्कारद्वारा व्याप्तिग्राहकले तदाहितसंस्कारस्य मानान्तरत्वापत्तिः यदसाधारणं सहकार्यासाद्य मनोवहिर्गोचरां प्रमां जनयति तदेव प्रमाणन्तरमिति पूर्वपक्षोन दूषयति, 'श्रत एवेति यत एव भूयोदर्शनजन्यसंस्कारस्तर्क एक
(१) न तु तदुत्तरं तत्र सत्त्वमितीति ग, घ । (२) संगच्छतामिति ग०, घ•।