________________
२१२
तत्वचिन्तामो
यस्मिन्नाशयमाने स्वक्रियाव्याघातो न भवतीति। न हि सम्भवति स्वयं वह्यादिकं धूमादिकार्यार्थं नियमत उपादत्ते तत्कारणं तन्नेत्याशयते चेति । एतेन व्याघातो विरोधः स च सहानवस्थाननियम इति तबाप्यनवस्थेति निरस्तं । स्वक्रियाया एव शङ्काप्रतिबन्धकत्वात्।
व्यभिचारसंभयस्य सम्भवादिति वाच्यं । अनायत्या व्यभिचारसंशयं प्रत्यपि तत्तदन्वय-व्यतिरेकानुविधायित्वज्ञानव्यक्तर्विरोध्यविषयकत्वेऽपि प्रतिबन्धकत्वोपगमात् एवं क्रमेण वशिजन्यत्वादिसंशयं प्रत्येव तस्य प्रतिबन्धकत्वसम्भवेऽप्युपायान्तरस्योपायान्तरादूषकत्वान्न तर्कवैयर्थमिति भावः । खोके प्राचां संवादमाह, 'तदिदमुक्तमिति, 'तदेवेत्यादि 'प्राशयते चेत्यन्तं प्राचीनग्रन्थः, 'आनयते' प्रवृत्तिपूर्व शङ्काविषयो भवति, 'भाशयमाने' प्रवृत्तिपूर्व सन्देहविषये मति, 'खक्रियेति, 'खक्रियायाः' खप्रवृत्तः, 'व्याघातो न भवति' इत्यर्थः। मनु धमोऽवहेरेव भविष्यतीत्यादिसंशयेऽपि प्रवृत्तिर्नानुपपन्नेत्यतशाह, 'न हौति, नियमतः' धूमादिरूपेष्टमाधनतानिर्णयतः, 'उपादको प्रयत्नविषयं कुरुते, 'तत्कारणमिति तदव्यवहितपूर्ववर्ति तन्नेत्यर्थः, धूमोऽवहेरेव भविश्थतीत्यादिसंशयस्यैव प्रतिबन्धकत्वात् । 'एतेनेति 'निरस्तमित्यनेनान्वयः, तत्रापि' तज्ज्ञानेऽपि, खक्रियायाः
(२) प्रछतत्वादिति ख, ग, घ० ।