________________
तक।
२२९
तेन विनापि तत्सम्भवात् तस्मात्तत्तदुपादानमेव ताह
यशाब्दबोधार्थ, 'उपादान' प्रयत्नः, 'नियमतः' अन्वय-व्यतिरेकाम्या प्रत्यक्षेण धूमादिरूपेष्टमाधनतानिश्चयतः, न हि धूमादौ वयाघसमवहितोत्पत्तिकत्वस्या हेतुकत्वस्य वा ग्रहस्य सामय्यां मत्यां वङ्ग्यादौ धूमादिरूपेष्टसाधनतानिश्चयः सम्भवतीत्याह, 'तेनेति तादृशग्रहसामग्रीसमवधानेनेत्यर्थः, 'विनापि' विनैव, 'तत्सम्भवात्' वग्यादौ धूमादिरूपेष्टमाधमतानिर्णयसम्भवात् । मनु कार्यानुत्पादस्य कारणविरहमात्रप्रयुक्तत्वात् कथं तादृशशङ्कानुत्पादस्य स्खक्रियाप्रयुक्तत्वमत-शाह, 'तस्मादिति, प्रयत्नान्यथानुपपत्त्येति शेषः, 'तदुपादानमेवेति वयुपादानमित्यर्थः, उपादानञ्च(१) उपादत्ते प्रवर्त्ततेऽनेनेति करणव्युत्पत्त्या प्रवृत्तिप्रयोजकीभतान्वय-व्यतिरेकानुविधायित्वज्ञानपरं ।
यत्तु भावव्युत्पत्त्या उपादानं प्रवृत्तिः पूर्वमपि स्वक्रियापदं तत्परमिति । तत्र। प्रवृत्तेः शङ्काप्रतिबन्धकवे मानाभावात् प्रवृत्तः कारणताग्रहोत्तरकालीनत्वेन तत्पूर्ववर्त्तिशङ्काप्रतिबन्धकवासम्भवाच ।
केचित्तु करणव्युत्पत्त्या उपादानपदं धूमादिसाधनतानिश्चयपरं पूर्वमपि खक्रियापदं तत्परमित्याहुः । तदसत् । धूमादिमा
(१) उपादानच उपादानपदश्चेत्यर्थः ।