________________
सत्यचिन्तामगै
न वाद्ययोः शश्योरभेद इति वाचं। प्रथमा धूमवावच्छेदेन, द्वितीया धूमवसामानाधिकरण्येनेति भेदात् । वैवं धूमत्वमामानाधिकरण्येन वयसमवहिताजन्यत्वज्ञत्वेऽपि धूमवसामानाधिकरखेन वयसमवहिताजन्यत्वनिश्चये बाधकाभावात् द्वितीयसंशयस्य कुतमार्कविरोधित्वमिति वाचं। विशेष्यतावच्छेदकसामानाधिकरयेन बाधनिश्चयस्य विशेष्यतावच्छेदकसामानाधिकरण्येन विशिष्टबुद्धप्रतिबन्धकत्वेऽपि(१) विशेष्यतावच्छेदकमामामाधिकरण्येन बाधसंशयस्य संशयसामग्रीसम्पादकतया विशेष्यतावच्छेदकसामानाधिकरण्येन विशिष्टनिश्चयं प्रत्यपि प्रतिबन्धकत्वात् । 'सर्वचेति षष्ठ्यर्थे सप्तमी सर्वस्याः शङ्काया इत्यर्थः, 'खक्रियाव्याघात इति, 'ख' तर्कप्रयोका पुरुषः) तस्य या 'क्रिया' वड्यन्वय-व्यतिरेकानुविधायित्वज्ञान, क्रियते प्रवर्ततेऽनेनेति व्युत्पत्तेः, तेन 'याघातः' तत्प्रयुक्तोऽनुत्पाद इत्यर्थः, अन्वय-व्यतिरेकाभ्यां प्रत्यक्षतो वझिजन्यत्वनिश्चयएवैतत्तकस्य सहकारितया वयषय-व्यतिरेकानुविधायित्वज्ञानस्य अवश्यं पूर्व सत्त्वादिति भावः । अन्वय-व्यतिरेकानुविधायित्वज्ञानस्य नाममहानुत्पादप्रयोजकत्वे मानमाह, 'यदि हौनि, 'सीतावयेति तदन्षय-व्यतिरेकानुविधायित्वज्ञानसत्त्वेऽपि तदसमवहितजन्यत्वं सामान्यतोऽहेतुकत्वं वा शझेतेत्यर्थः, 'परप्रतिपत्त्यर्थं' परकी
(१) अवच्छेदावच्छेदेन विशिष्टबुद्धि प्रति सामानाधिकरण्येन बाधनिश्च
यस्य प्रतिबन्धकत्वमिति भावः (२) तर्कवत्युरुष इति क०।