________________
सावचिन्तामणौ
दीपदानादी प्रवृत्या, तत्प्रवृत्तिश्च दीपदानादा खेष्टसाधनताद्यनुमानादित्यदृष्टद्वारा चक्षुरादिकमनुमानोपजीवका न चादृष्टाद्वारकोपजौवकत्वमेव मङ्गतिरिति वाच्यम्। खेष्टसाधनतानुमितिहेतुकप्रवृत्यादिक्रमेण घर्षणदिजनितायां खण्डचक्षुरादिव्यतावदृष्टदारापि परम्परयानुमानोपजीवकत्वसत्त्वात् । न च प्रवृत्त्यद्वारकं जन्यत्वरूपं वा(१) उपजीवकत्वमेव सङ्गतिरिति वाच्यम्। मनमोऽनुमानत्वनये त्रात्ममनःसंयोगस्थ निर्विकल्पादिद्वारा प्रत्यक्षप्रमितिकरणत्वेन प्रत्यक्षप्रमाणरूपस्य साक्षान्मनोरूपानुमानजन्यत्वेन तादृशानुमानोपजीवकत्वस्थापि प्रत्यक्षे सत्त्वात् । एतेन यत्किञ्चित्ममितिविभाजकोपाध्यवच्छिन्ननिरूपितफलोपधानात्मककरणत्वावच्छेदेन उपजीवकलमेव सङ्गतिः तच्चानुमान एवास्ति न तु इन्द्रियात्मकप्रत्यक्षप्रमाणे 'मनः-श्रवणयोरजन्यत्वात् फलोपधानात्मकत्वविवक्षणदौश्वरौयव्याप्तिज्ञानस्यास्मदाद्यनुमितिस्वरूपयोग्यकरणत्वेऽपि(२) अनुमाननिष्ठप्रत्यचोपजीवकत्वस्य न मङ्गनित्यहानिरित्यपि प्रत्युक्तम् । मनमोऽनुमितिकरणवनये नुमितिकरणत्वावच्छेदेनापि प्रत्यक्षोपजीवकत्वाभावात् तादृशोपजीवकत्वस्यैव सङ्गतित्वे शब्दे उपमानोपजीवकत्वस्याप्यसङ्गतिलापाताच्च व्यवहारादितोऽपि शक्तियहात् शाब्दधीकरणत्वावच्छेदेलोपमानोपजीवकवाभावादिति चेत् । न । प्रत्यनानुमानयोः परस्परं उपजीवकत्वाविशेषेऽपि यत् यदुपजौवकं तत् तविरूपणानन्तरनिरूप्यमिति नियमाभावादेव अनुमाननिरूपणानन्तरं , प्रत्यक्षनिरूपण(१) परम्परयोपजीवकावं न साक्षानन्यत्वमपि तु प्रयोज्यत्वमेव । (२) सरूपयोग्यत्वेपीवि ख०। ।