________________
अनुमितिनिरूपणं।
पत्तये प्रत्यक्षानुमानयोः सङ्गतिवरूपेण सङ्गतिमपि दर्शयति, 'प्रत्यचोपजौवकालादिति अनुमानस्य प्रत्यक्षकार्य्यवादित्यर्थः । भवति हि व्याप्तिज्ञानात्मकमनुमानमिन्द्रियात्मकप्रत्यक्षफलमिति भावः। अत्र ज्ञानजन्यजिज्ञासाप्रयोज्यत्वं पञ्चम्यर्थः, अन्वयश्चास्य प्रत्यक्षानन्तरनिरूपणे, तथाच प्रत्यक्षोपजीवकत्वज्ञानजन्यजिज्ञासाप्रयोज्यप्रत्यजानन्तरनिरूपणविषयोऽनुमानमित्यर्थः । एतेन सङ्गतिवरूपेण मङ्गतिर्दर्शिता, अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वं कि मङ्गतित्वं, तथाचानन्तराभिधाने प्रत्यक्षकार्यत्वज्ञानजन्यजिज्ञासाप्रयोज्यत्वहे प्रत्यक्षकार्यत्वेऽपि अनन्तराभिधानप्रयोजकजिज्ञामाजनकज्ञानविषयत्वग्रहात् तुल्यवित्तिवेद्यत्वेन उत्तरकालं मानसबोधसम्भवात् । एकवाक्यत्वञ्च एकप्रयोजनप्रयोजनकप्रतिपत्तिविषयार्थकत्वं, पूर्वग्रन्थार्थप्रतिपत्तिप्रयोजनायोजनकप्रतिपत्तिविषयार्थकत्वमितिः यावत् प्रयोजनन्तु परम्परया मुक्तिरेव । एकवाक्यताप्रतिपत्तौ च मङ्गतिप्रदर्शनं लिङ्गज्ञानविधया हेतः, यत् यत्मङ्गतिमत्प्रतिपादक'वाक्यं भवति तत्तत्प्रतिपादकग्रन्थेनैकवाक्यं भवति यथा मन्त्रिकर्षादि
ग्रन्थ एव प्रत्यक्षकार्य्यत्वैककार्यकारित्वादिसङ्गतिमत्प्रतिपादकवाक्यं - भवति प्रत्यक्षप्रदिपादकग्रन्थेनैकवाक्यमपि भवतीति व्याप्तेः। न चैतादुकवाक्यताप्रतिपत्तिर्न प्रकृतोपयोगिनीति वाच्यम्। तत्प्रतिपत्तः प्रत्यक्षग्रन्थप्रयोज्यफलेच्छावतोऽनुमानग्रन्थप्रवृत्तावुपयोगित्वात्। मन्वनुमाने प्रत्यक्षोपजीवकत्ववञ्चक्षुराद्यात्मके प्रत्यक्षेऽप्यनुमानोपजीवकत्वस्थाविशिष्टतया अनुमाननिरूपणानन्तरं प्रत्यक्षनिरूपणापत्तिः । भवति हि कार्य्यमात्रेऽदृष्टस्य हेतुतयः चक्षुरादावष्यदृष्टं हेतुः तचादृष्टं