________________
ie तत्वचिसामने नचैवमननुगमा दोषाय, कस्य का व्याप्तिरित्यननुगतस्यैव लक्ष्यत्वात् । अथ धूमवति वहि-इदा न प्रतियोगी नेत्यप्रत्ययेन(१) स्वप्रतियोगित्वावच्छित्रप्रतियोगिताकभेदवत्त्वस्य हेत्वधिकरणे विरहादित्येव तत्त्वं ।
केचिन्नु कपिसंयोगिभिवत्वस्थाव्याप्यवृत्तित्वधने तत्मायां वा हेतुसामानाधिकरण्यग्रहे नियमतोऽनुमित्यनुत्पादवारणय प्रतियोग्यत्तित्वेनान्योन्याभावो विशेषणीयः । न चैवं कपिसंयोगौ मत्त्वादित्यादावतिव्याप्तिरिति वाच्यं। मामानाधिकरण्यस्याव्याप्यवृत्तितया कपिसंयोगवदन्योन्याभावस्थापि गुणादौ प्रतियोग्यवृत्तित्वात् । हेत्वधिकरणावच्छेदेन प्रतियोग्यवृत्तित्वं विवक्षितं एतलाभायैव च हेतुसमानाधिकरणपदं, तेन संयोगौ द्रव्यत्वादित्यादौ नाव्याप्तिस्तदवस्था । हेतुरेव वा प्रतियोग्यवृत्तित्वेन विशेषणैयः इत्याहुः । तदसत् गौरवात् सम्बन्धविशेषेणैव प्रतियोग्यरत्तित्वस्य वक्तव्यतया(२) स्वप्रति
(१) अव्याप्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकभेदस्यैवाव्याप्यत्तित्वं न तु
व्याप्यत्तिधर्मावच्छिनप्रतियोगिताकभेदस्य पतः प्रतियोगित्वस्य याप्यत्तिधर्मतया तदवच्छिन्नप्रतियोगिताकभेदस्य नाव्याप्यवत्तित्व
मिति भावः। (२) प्रतियोग्यत्तित्वम्य सम्बन्धविशेषानियन्त्रितत्वे धूमवान् व रित्वादा
वतिव्याप्तिः तत्र धूमववेदस्य प्रतियोगिनि धूमवति कालिकसम्बन्धेन वर्तमानत्वात् प्रतियोग्यरत्तिभेदो गगनादिभेद रव तस्य प्रतियोगिनि गगनारी केनापि सम्बन्धेनावर्तमानत्वात् तदप्रतियोगित्वात् धूमवदादेः । सम्बन्धविशेषश्च खप्रतियोगितावच्छेदकवत्तायाविरोधिताघटकासम्बन्धरूपः, खपदं बन्योन्याभावपरम् ।